यदृच्छया तं नैवेद्यं यो भुङ्क्ते साधुसंगतः
यो निवेद्य हरिं भुङ्क्ते भक्त्या भक्तश्च नित्यशः
श्रुतं पुरा त्वन्मुखतः पुष्करे मुनिसंसदि
सुचिरं च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः 4.37.
यतो न दत्तं नैवद्यं विष्णोर्मह्यं त्वयाऽधुना
अद्यप्रभृति ये लोका नैवेद्यं भुञ्जते तव
इत्युक्त्वा पार्वती माता रुरोद पुरतो विभोः
तदा शिवः शिवां भक्त्या कृत्वा वक्षसि सादरम्
करेण चक्षुषोर्नीरं संमृज्य च पुनःपुनः
परितुष्टा च सा देवी भर्तारं समुवाच ह
बिभर्ति देहं सततं तव सौभाग्यवर्द्धनम्
अपूर्वं तव नैवेद्यं जन्ममृत्युजराहरम्
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर
इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता 4.37.
शंकर उवाच ममापराधमखिलं क्षन्तुमर्हसि सुन्दरि
मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि
अहो गोलोकनाथस्थ गुणातीतस्य निर्गुणे
साकारे च निराकारे नित्ये स्वेच्छामये प्रिये
सर्वबीजस्वरूपे च महामाये मनोहरे ४५ इच्छैव श्रीहरेः साक्षान्नाहं दातुमपि क्षमः
इत्येवमुक्त्वा पुरतस्तस्थौ च चन्द्रशेखरः
इत्येवं पार्वतीस्तोत्रं शङ्करेण कृतं पुरा
मित्रभेदो भवेद् दूरं तत्संम्प्रीतिर्भवेत्पुरा
श्रुत्वा प्रतिज्ञां नाथस्य परितुष्टा बभूव सा 4.37.
स्नात्वा संपूज्य भक्त्या च सुरमिष्टं च निर्गुणम्
शिवः स्नात्वा च संपूज्य ब्रह्मज्योतिः सनातनम्
गत्वा सर्वमहं भुक्त्वा तस्मै दत्त्वाऽभिवाञ्छितम्
भुक्त्वाऽवशेषं सा देवी सह भर्त्रा मुदाऽन्विता
इत्येवं कथितं सर्वं त्वया पृष्टं सुरेश्वरि
श्रीकृष्ण उवाच अधुना श्रूयतां मत्तो दुर्गादर्पविमोचनम्
तेजसा सर्वदेवानामाविर्भूय जगत्प्रसूः