गरुडद्वेषिणो नागाः शंकरं शरणं ययुः 4.36.
न संवसामि गोलोके वैकुण्ठे तव वक्षसि 4.36.
पञ्चवक्त्रेण मन्नाम यो हि गायत्यहर्निशम्
इत्येवं कथितं सर्वे शंकरस्य यशोऽमलम्
श्रीराधिकोवाच न शस्तं कथमुच्छिष्टं ब्रूहि संदेहभञ्जन
श्रीकृष्ण उवाच पापेन्धनानां दहने ज्वलदाग्निशिखोपमम्
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा
प्राप्तमात्रेण तत्रैव भुक्तं तेनैव किंचन
सिद्धाश्रमे च यद्दत्तं गुरवे शूलपाणिने
भु्क्त्वा सुदुर्लभं वस्तु ननर्त प्रेमविह्वलः
गायन्मम गुणान्भक्त्या सुकण्ठः पंचवक्त्रतः
पपात डमरुर्हस्ताच्छृङ्गं च व्याघ्रचर्म च
अतीव कमनीयं तद्रूपं ध्यात्वैकमानमः 4.37.
एतस्मिन्नन्तरे देवी दुर्गा दुर्गार्तिनाशिनी
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तं च भक्तितः
सर्वं तां कथयामास कुमारः संपुटाञ्जलिः
तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा
न लोकानां प्रभावश्च तपःसौभाग्यतेजसाम्
उवाच तं जगन्माता नीतिसारं परं वचः
अहो तपःप्रभावश्च तेजसश्च न जीविनाम्
पार्वत्युवाच वक्ता चतुर्णां वेदानां जनकश्च स्वयं विभुः
मुक्तिप्रदाता भक्तानां दाता च सर्वसंपदाम् 4.37.
सदा ते परिपाल्याऽहं पोष्या भक्त्या च किंकरी
किंचिच्छुद्धं हिरण्येन किंचिद्वस्तु च वायुना
विष्णोर्निवेदितान्नेन यष्टव्याः सर्वदेवताः
अनिवेद्यमभक्ष्यं च नैवेद्यमुदरे हरेः
अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम्
हन्त्यकालिकमृत्युं तदमृतं मूढरंजनम्