चक्षुषस्तामसात्पश्चाल्ललाटस्थाद्धरस्य च 4.36.
कोटितालप्रमाणश्च सूर्यकोटिसमप्रभः
विभूतिगात्रः स विभुः सतीसंस्कारभस्मना
स्वात्मारामो यद्यपीशस्तथाऽपि पूर्णमब्दकम्
प्रत्यङ्गं चापि तस्याश्च पपात यत्र यत्र ह
तदा शवावशेषं च कृत्वा वक्षसि शंकरः
तदा गत्वा महेशं तं कृत्वा क्रोडे प्रबोध्य च
तदा शिवश्च संतुष्टः स्वं लोकं च जगाम ह
दिव्यस्रग्धारियोगेन नेच्छा नित्ये परे विभोः
न चेच्छा केशसंस्कारे स्वाङ्गवेषेण योगिनः
गरुडद्वेषिणो नागाः शंकरं शरणं ययुः 4.36.
न संवसामि गोलोके वैकुण्ठे तव वक्षसि 4.36.
पञ्चवक्त्रेण मन्नाम यो हि गायत्यहर्निशम्
इत्येवं कथितं सर्वे शंकरस्य यशोऽमलम्
श्रीराधिकोवाच न शस्तं कथमुच्छिष्टं ब्रूहि संदेहभञ्जन
श्रीकृष्ण उवाच पापेन्धनानां दहने ज्वलदाग्निशिखोपमम्
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा
प्राप्तमात्रेण तत्रैव भुक्तं तेनैव किंचन
सिद्धाश्रमे च यद्दत्तं गुरवे शूलपाणिने
भु्क्त्वा सुदुर्लभं वस्तु ननर्त प्रेमविह्वलः
गायन्मम गुणान्भक्त्या सुकण्ठः पंचवक्त्रतः
पपात डमरुर्हस्ताच्छृङ्गं च व्याघ्रचर्म च
अतीव कमनीयं तद्रूपं ध्यात्वैकमानमः 4.37.
एतस्मिन्नन्तरे देवी दुर्गा दुर्गार्तिनाशिनी
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तं च भक्तितः
सर्वं तां कथयामास कुमारः संपुटाञ्जलिः
तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा
न लोकानां प्रभावश्च तपःसौभाग्यतेजसाम्