श्रीनारायण उवाच पप्रच्छ राधिका देवी निगूढमभिवाञ्छितम्
श्रीराधिकोवाच वद मे वाञ्छितं प्रश्नं सर्वसंदेहभञ्जनम् ।। 4.36.
सर्वज्ञानाधिदेवश्च शंकरः सर्वतत्त्ववित्
कथं विभूतिगात्रश्च पञ्चवक्त्रस्त्रिलोचनः
वृषेणाटति देवेन्द्रो विहाय वरवाहनम्
वह्निशुद्धांशुकं त्यक्त्वा धत्ते शार्दूलचर्मकम्
नास्ति रत्नकिरीटेच्छा जटायां प्रीतिरुत्तमा
चन्दनागुरुकस्तूरीसुगंधिकुसुमानि च
एतद्वेदितुमिच्छामि व्यासेन कथय प्रभो
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः
श्रीकृष्ण उवाच विरराम पूर्णतमो ध्यात्वा मां मनसा मुदा
एतस्मिन्नन्तरे मां च ददर्श पुरतः स्थितम् ।।4.36.८०. न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः
पश्यन्निमेषरहित इति मत्वा स्वमानसे
सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्मुखः
पश्यामि किं वा किं स्तौमि संप्राप्य नाथमीदृशम्
स्व मानसे कुर्वतीदं शंकरे च तपस्विनि
एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः। बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः
स्तवनादधिकप्रीतिः शिवस्य दर्शने मम
चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः
सत्त्वांशेन दृशा शंभुः पश्यन्पाति च सात्त्विकान्
चक्षुषस्तामसात्पश्चाल्ललाटस्थाद्धरस्य च 4.36.
कोटितालप्रमाणश्च सूर्यकोटिसमप्रभः
विभूतिगात्रः स विभुः सतीसंस्कारभस्मना
स्वात्मारामो यद्यपीशस्तथाऽपि पूर्णमब्दकम्
प्रत्यङ्गं चापि तस्याश्च पपात यत्र यत्र ह
तदा शवावशेषं च कृत्वा वक्षसि शंकरः
तदा गत्वा महेशं तं कृत्वा क्रोडे प्रबोध्य च
तदा शिवश्च संतुष्टः स्वं लोकं च जगाम ह
दिव्यस्रग्धारियोगेन नेच्छा नित्ये परे विभोः
न चेच्छा केशसंस्कारे स्वाङ्गवेषेण योगिनः