तदा ममाज्ञया तूर्णं वञ्चितो माययाऽसुरः
तदा सिद्धाः सुरेन्द्राश्च मुनीन्द्रा मनवो मुदा 4.36.
बभूव चूर्णस्तद्गर्वो जगाम बोधितो मया
अथ गर्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्बणम्
कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम्
चिरं बभूव समरं वर्षमेकं दिवानिशम्
पृथिव्यां चरणं कृत्वा दैत्येन्द्रो मायया प्रिये
उत्तस्थौ शंकरस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः
अस्त्राणि चापं चिच्छेद शङ्करस्यासुरो बली
जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः
क्षणेन चेतनां प्राप्य कोपाद्दानवपुंगवः
सरथे पातिते रुद्रे देवा देवर्षयो भिया 4.36.
हरः सस्मार मामेव निर्भयो भयकारणम्
तदाऽहं कलया शीघ्रं वृषरूपं विधाय च
ददौ तस्मै स्वकवचं स्वशूलमरिमर्दनम्
मया दत्तेन शूलेन जघान त्रिपुरं हरः
सद्यः पपात दैत्येन्द्रश्चूर्णीभूतश्च भूतले
तत्याज शङकरो दर्पं विघ्नबीजं ततो विभुः
ततोऽहं वृषरूपेण वहामि तेन तं प्रियम्
मनःस्वरूपो ब्रह्मा मे ज्ञानरूपो महेश्वरः
निद्रादयः शक्तयो यास्ताः सर्वाः प्रकृतेः कलाः
मम कल्याणाधिदेवो हर्षरूपो गणेश्वरः 4.36.
सर्वैश्वर्याधिदेवी मे सर्वगोलोकवासिनः
गोपाङ्गनास्तव कला अत एव मम प्रियाः
तेजःस्वरूपः सूर्यश्च प्राणा मे वायवः स्मृताः
मम शून्यो महाकाशो मदनो मानसोद्भवः
एतानि सृष्टिबीजानि महदादीनि चैव हि
जीवो मे प्रतिबिम्बश्च कर्मभोगाधिकारकः
भक्तध्यानार्थदेहोऽयं मम स्वेच्छामयस्य च
इत्येवं कथितं राधे शिवदर्पविमोचनम्