सा विप्रगेहे साध्वी च सुषाव तनयं वरम्
तत्रस्था योषितः सर्वा ददृशुर्बालकं शुभम्
कामदेवाधिकं रूपे चन्द्राधिकशुभाननम्
हस्तपादादिवलितं सुकपोलं मनोहरम्
करयुग्मं वाऽतुलं च रुदन्तं च स्तनार्थिनम्
पुपोष ब्राह्मणस्तां च सपुत्रां च यथा सुताम्
सौतिरुवाच जातिस्मरो ज्ञानयुक्तः पूर्वमन्त्रस्मृतः सदा
गीयते सततं कृष्णयशोनामगुणादिकम्
कृष्णसम्बन्धिनीं गाथां शृणोति यत्र तत्र वै
धूलिधूसरसर्वाङ्गो धूलिनैवेद्यमीप्सितम्
पुत्रमाह्वयते माता प्रातराशाय चेन्मुने
शौनक उवाच व्युत्पत्त्या संज्ञया वाऽपि तद्भवान्वक्तुमर्हति
सौतिरुवाच नारं ददौ जन्मकाले तेनायं नारदाभिधः
ददाति नारं ज्ञानं च बालकेभ्यश्च बालकः
वीर्येण नारदस्यैव बभूव बालको मुने
शौनक उवाच मुनीन्द्रस्य कथं नाम नारदश्चेति मंगलम् ।। 1.21.
सौतिरुवाच ददौ पुत्र कश्यपाय तेनायं नारदाभिधः
शौनक उवाच शूद्रयोनौ ब्रह्मपुत्रः कथं स नारदाभिधः
सौतिरुवाच नरान्ददौ तत्कण्ठं च तेन तन्नारदं स्मृतम्
ततो बभूव बालश्च नारदात्कण्ठदेशतः
साम्प्रतं शिशुवृत्तान्तं सावधानं निशामय
ववृधे गोपिकाबालो विप्रगेहे दिनेदिने
एतस्मिन्नन्तरे विप्रा आययुर्विप्रमन्दिरम्
प्रच्छन्नं हृतवन्तश्च ग्रीष्ममध्याह्नभास्करम्
फलमूलादिकं काले चत्वारो मुनिपुङ्गवाः
चतुर्थको मुनिस्तस्मै कृष्णमन्त्रं ददौ मुदा 1.21.
एकदा शिशुमाता च गच्छन्ती निशि वर्त्मनि
सद्यो जगाम वैकुण्ठं विष्णुयानेन सा सती
प्रातर्बालो द्विजैः सार्धं प्रययौ विप्रमन्दिरात्
ब्रह्मपुत्राः शिशुं त्यक्त्वा स्वस्थानं प्रययुः किल