तपसा तेजसा शश्वत्तेजोराशिर्बभूव ह
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् 4.36.
जपन्तं स्वात्मनाऽऽत्मानं श्वेताब्जबीजमालया
स्वर्णाकारं जटाभारं दधतं शिरसा मुदा
अथ स्वमीश्वरं मत्वा प्रदाता सर्वसंपदाम्
यो यं वाञ्छति तं तस्मै वरं दत्त्वा वरेश्वरः
एकदा च वृको दैत्यस्तपस्तेपे शिवस्य च
नित्यं याति तत्समीपं कृपया च कृपानिधिः
वर्षान्ते शङ्करः शश्वत्तस्थौ तत्पुरतः स्वयम्
सर्वैश्वर्यं सर्वसिद्धिं भुक्तिं मुक्तिं हरः पदम्
ध्यायमानं तत्पदाब्जं दृष्ट्वा त्रस्तो महेश्वरः
अतीव रोदनात्तस्य ध्यानभङ्गो बभूव ह 4.36.
यन्मायया वरं वव्रे दैत्येन्द्रो भक्तिपूर्वकम्
ओमित्युक्त्वा प्रयान्तं तं दुद्राव दैत्यपुंगवः
पपात डमरुस्तस्य व्याघ्रचर्म मनोहरम्
न हन्ति तं च कृपया भक्तं च भक्तवत्सलः
साधवो घ्नन्ति घ्नन्तं च भृत्यं पुत्रं प्रियां विना
शिवः स्वमृत्युं मत्वा च भीतश्च निरहंकृतः
दृष्ट्वा स्वाश्रममायान्तं शुष्ककण्ठोष्ठतालुकम्
संस्थाप्य तत्समीपे च स दैत्यो बोधितो मया
तदा ममाज्ञया तूर्णं वञ्चितो माययाऽसुरः
तदा सिद्धाः सुरेन्द्राश्च मुनीन्द्रा मनवो मुदा 4.36.
बभूव चूर्णस्तद्गर्वो जगाम बोधितो मया
अथ गर्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्बणम्
कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम्
चिरं बभूव समरं वर्षमेकं दिवानिशम्
पृथिव्यां चरणं कृत्वा दैत्येन्द्रो मायया प्रिये
उत्तस्थौ शंकरस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः
अस्त्राणि चापं चिच्छेद शङ्करस्यासुरो बली
जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः