मदीयविषये बाह्ये मया दत्तं कुरु प्रियम् 4.35.
कन्या भवतु मे ब्रह्मन्कामदेवस्य कामिनी
इत्येवमुक्त्वा ब्रह्माणमाश्वास्य कमलापतिः
कथं स कुलटाशापादपूज्यः संबभूव ह
कथं तस्य दर्पभङ्गं चकार कमलापतिः
श्रीनारायण उवाच रासेश्वरीवचः श्रुत्वा प्रहस्य रसिकेश्वरः
श्रीकृष्ण उवाच ब्रह्मा चिरं तपस्तप्त्वा मत्तो लब्ध्वा वरं वरम्
तपसां फलदाता च सर्वेषां शास्तिकृत्प्रभुः
ब्रह्माण्डेषु च सर्वेषु गर्वपर्यन्तमुन्नतिः
येषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परः
प्रथमे ब्रह्मणो गर्वो मया चूर्णीकृतः श्रुतः
वह्नेर्दुर्वाससश्चैव तथा धन्वन्तरेः प्रिये
क्षुद्राणां महतां चैव येषां गर्वो भवेत्प्रिये 4.36.
पप्रच्छ राधा यत्नेन संत्रस्ता भयविह्वला
त्वया केन प्रभावेण तस्य भङ्गः कृतः पुरा
कथयस्व प्राणनाथ सर्वेषां दर्पभञ्जन
अन्येषां श्रूयतां राधे व्यासेन कथयामि ते
स्वयं शिवो मदंशश्च संहर्ता जगतां च यः
ध्यायन्ति योगिनो यं स योगीन्द्राणां गुरोर्गुरुः
युगषष्टिसहस्राणि तपस्तप्त्वा दिवानिशम्
तपसा तेजसा शश्वत्तेजोराशिर्बभूव ह
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् 4.36.
जपन्तं स्वात्मनाऽऽत्मानं श्वेताब्जबीजमालया
स्वर्णाकारं जटाभारं दधतं शिरसा मुदा
अथ स्वमीश्वरं मत्वा प्रदाता सर्वसंपदाम्
यो यं वाञ्छति तं तस्मै वरं दत्त्वा वरेश्वरः
एकदा च वृको दैत्यस्तपस्तेपे शिवस्य च
नित्यं याति तत्समीपं कृपया च कृपानिधिः
वर्षान्ते शङ्करः शश्वत्तस्थौ तत्पुरतः स्वयम्
सर्वैश्वर्यं सर्वसिद्धिं भुक्तिं मुक्तिं हरः पदम्