प्राणत्यागात्परं दुःखमयशश्च यशस्विनाम् ।। 4.35.
कन्या तातं मृतं दृष्ट्वा विलप्य च भृशं मुहुः
मृतं तातं च भगिनीं दृष्ट्वा च मुनिपुंगवाः
नारायणो मदंशश्च कृपयाऽऽगत्य सत्वरम्
ब्रह्मा पुरो हरिं दृष्ट्वा वरं वव्रे स्म वाञ्छितम्
ब्रह्माणं विरसं दृष्ट्वा तमुवाच कृपानिधिः
श्रीनारायण उवाच त्यज लज्जां जगन्नाथ हृदयज्वररूपिणीम्
सत्कीर्तिरपकीर्तिर्वा सुप्रतिष्ठाप्युपद्रवः
सर्वेषामपि सर्वेभ्यः स्वकर्म बलवत्तरम्
केचित्कुर्वन्ति निर्मूलं सर्वेषामपि कर्मणाम्
कुकर्मणश्चापकीर्तिस्ततो लज्जा भवेद्ध्रुवम् 4.35.
कालेन रजसा देहो बलं रूपं शुभाशुभम्
ऋणव्रणापवादाश्च जन्तूनां यान्ति कालतः
सदाऽपकीर्तिर्वसति परस्त्रीषु च वस्तुषु
स्मर मामन्तरे ब्राह्मे मदीयं विषयं कुरु
योषिद्रूपा च मे माया सर्वेषां मोहकारिणी
नानामुद्राश्रये देशे रागिणो संततं रतिः
श्रोणिवक्त्रस्तनं तासां कामदेवालयं सदा
को धर्मः किं यशस्तेषां का प्रतिष्ठा च किं तपः
इहाप्यपयशो दुःखं नरकेषु परत्र च
दुःखबीजं सुखं मत्वा मूढाश्च दैवदोषतः 4.35.
उत्तमा मत्पदाम्भोजं सत्कर्म मध्यमाः सदा
विपत्तिः संततं तस्य परवस्तुषु यन्मनः
दैवात्परस्त्रियं दृष्ट्वा विरमेद्यो हरिं स्मरन्
सततं नैव संसक्ताः सन्तः स्वस्त्रीषु कामतः
तपस्विनस्तपस्यायां शास्त्रचिन्तासु पण्डिताः
साध्यश्च पतिसेवासु गृहस्था गृहकर्मसु
एते नियुक्ता एतेषु सभासु च प्रशंसिताः
सर्वे नित्यं प्रशंसन्ति शश्वत्सन्मार्गगामिनम्
भविता न परस्त्रीषु परवस्तुषु ते मनः