त्वमेव विश्वकर्ता च शास्ता वै शमनस्य च 4.35.
अस्माकं पुरतो दूरं गच्छ कामार्तमानस
गुरोर्दोषसहस्राणि क्षन्तुमर्हन्ति पण्डिताः
गृह्णन्ति यदि सर्वस्वं शपन्तं निष्ठुरं गुरुम्
ये द्विषन्ति च निन्दति गुरुमिष्टं सुरात्परम्
पुरीषं भुञ्जते नित्यं क्षुभिता यमताडनैः
इत्येवमुक्त्वा मुनयः प्रणेमुस्तत्पदाम्बुजम्
उन्मुखा मुनयः सर्वे बभूवुश्च स्वकर्मणि
योगेन भित्त्वा षट्चक्रं सर्वान्प्राणान्निरुद्ध्य च
मनसा श्रीहरिं स्मृत्वा नमस्कारं चकार ह
प्राणत्यागात्परं दुःखमयशश्च यशस्विनाम् ।। 4.35.
कन्या तातं मृतं दृष्ट्वा विलप्य च भृशं मुहुः
मृतं तातं च भगिनीं दृष्ट्वा च मुनिपुंगवाः
नारायणो मदंशश्च कृपयाऽऽगत्य सत्वरम्
ब्रह्मा पुरो हरिं दृष्ट्वा वरं वव्रे स्म वाञ्छितम्
ब्रह्माणं विरसं दृष्ट्वा तमुवाच कृपानिधिः
श्रीनारायण उवाच त्यज लज्जां जगन्नाथ हृदयज्वररूपिणीम्
सत्कीर्तिरपकीर्तिर्वा सुप्रतिष्ठाप्युपद्रवः
सर्वेषामपि सर्वेभ्यः स्वकर्म बलवत्तरम्
केचित्कुर्वन्ति निर्मूलं सर्वेषामपि कर्मणाम्
कुकर्मणश्चापकीर्तिस्ततो लज्जा भवेद्ध्रुवम् 4.35.
कालेन रजसा देहो बलं रूपं शुभाशुभम्
ऋणव्रणापवादाश्च जन्तूनां यान्ति कालतः
सदाऽपकीर्तिर्वसति परस्त्रीषु च वस्तुषु
स्मर मामन्तरे ब्राह्मे मदीयं विषयं कुरु
योषिद्रूपा च मे माया सर्वेषां मोहकारिणी
नानामुद्राश्रये देशे रागिणो संततं रतिः
श्रोणिवक्त्रस्तनं तासां कामदेवालयं सदा
को धर्मः किं यशस्तेषां का प्रतिष्ठा च किं तपः
इहाप्यपयशो दुःखं नरकेषु परत्र च