श्रीकृष्ण उवाच अकथ्यं गोपनीयं च महतामभिनिन्दितम् ।। 4.35.
एकदा च प्रजाः स्रष्टुं विधाता प्रेरितो मया
सनकं च सनन्दं च सनातनमनुत्तमम्
असितं कपिलं सिद्धं सिद्धान्मम कुलोद्भवान्
प्रजाः स्रष्टुं प्रेरकं च जनकं तेऽवमन्य च
तदा रुष्टो जगद्धाता पुनः पुत्रान्विनिर्ममे
तस्मिन्प्रयुज्य तरसा पुनः पुत्रान्विनिर्ममे
वसिष्ठं पुलहं चैव क्रतुमङ्गिरसं तथा
मरीचिं च विनिर्माय प्रजाः स्रष्टुं नियुज्य च
कृष्णस्य कामिनः पुत्रः कामदेवो बभूव ह
उवाच पुत्रं स विधिः सुदीप्तं पुरतः स्थितम् 4.35.
ब्रह्मोवाच हृष्टियोगेन सर्वेषामधिष्ठानं करिष्यसि
संमोहनं समुद्वेगं बीजस्तंभितकारणम्
प्रगृह्यैतान्मया दत्तान्सर्वान्संमोहनं कुरु
बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्विधिः
एतस्मिन्नन्तरे कामो मनसाऽऽलोच्य मन्त्रणाम्
मंत्रपूतैश्च बाणैश्च दुर्वार्यैः स्मरणेन च
क्षणेन चेतनां प्राप्य ददर्शाग्रे च कन्यकाम्
दृष्ट्वा पश्चाच्च पितरं धावन्तं हतचेतनम्
ते तां समीपे संस्थाप्य तमूचुः पितरं क्रुधा
ऋषय ऊचुः नीचानां चरितं यत्तत्करोषि त्वं जगद्विधे ।। 4.35.
पश्यन्ति सततं सन्तः प्रसूमिव परस्त्रियम्
त्वं स्वयं वेदकर्ता च कन्यां संभोक्तुमिच्छसि
गुरोः पत्नी राजपत्नी विप्रपत्नी च या सती
प्रसूः पित्रोस्तथा भ्रातुः पत्नी श्वश्रूः स्वकन्यकाः
स्वाभीष्टसुरपत्नी च धात्रिकाऽन्नप्रदायिका
एता वेदप्रणीताश्च सर्वेषां मातरः स्मृताः
कन्यादाताऽन्नदाता च ज्ञानदाताऽभयप्रदः
एता वहन्ति ये मूढा य एताञ्जनकानपि
तानन्धकूपे संस्थाप्य दूरतो यमकिङ्कराः