पारावतानां लक्षं च शुकानां च शतं मुने
ग्रामाणां च सहस्रं च नगराणां शतं शतम्
शतकोटिं सुवर्णानां रत्नानां च सहस्रकम्
ददौ तैजसपात्राणां भूषणानामसंख्यकम्
राज्यं दत्त्वा महाराजोऽप्यन्तर्बाह्ये हरिं स्मरन् ।। जगाम बदरीं गोपो मनोगामी मुदाऽन्वितः
तत्र मासं तपः कृत्वा गङ्गातीरे मनोहरे
स च विष्णुविमानेन रत्नेन्द्रनिर्मितेन च
तत्र प्राप हरेर्दास्यं हरिदासो बभूव सः
गते कलावती नाथे उच्चैश्च प्ररुरोद ह
ब्राह्मणो मातरित्युक्त्वा तां गृहीत्वा मुदाऽन्वितः 1.20.
सा विप्रगेहे साध्वी च सुषाव तनयं वरम्
तत्रस्था योषितः सर्वा ददृशुर्बालकं शुभम्
कामदेवाधिकं रूपे चन्द्राधिकशुभाननम्
हस्तपादादिवलितं सुकपोलं मनोहरम्
करयुग्मं वाऽतुलं च रुदन्तं च स्तनार्थिनम्
पुपोष ब्राह्मणस्तां च सपुत्रां च यथा सुताम्
सौतिरुवाच जातिस्मरो ज्ञानयुक्तः पूर्वमन्त्रस्मृतः सदा
गीयते सततं कृष्णयशोनामगुणादिकम्
कृष्णसम्बन्धिनीं गाथां शृणोति यत्र तत्र वै
धूलिधूसरसर्वाङ्गो धूलिनैवेद्यमीप्सितम्
पुत्रमाह्वयते माता प्रातराशाय चेन्मुने
शौनक उवाच व्युत्पत्त्या संज्ञया वाऽपि तद्भवान्वक्तुमर्हति
सौतिरुवाच नारं ददौ जन्मकाले तेनायं नारदाभिधः
ददाति नारं ज्ञानं च बालकेभ्यश्च बालकः
वीर्येण नारदस्यैव बभूव बालको मुने
शौनक उवाच मुनीन्द्रस्य कथं नाम नारदश्चेति मंगलम् ।। 1.21.
सौतिरुवाच ददौ पुत्र कश्यपाय तेनायं नारदाभिधः
शौनक उवाच शूद्रयोनौ ब्रह्मपुत्रः कथं स नारदाभिधः
सौतिरुवाच नरान्ददौ तत्कण्ठं च तेन तन्नारदं स्मृतम्
ततो बभूव बालश्च नारदात्कण्ठदेशतः