अस्या विनाशः प्रलये नास्त्येव दुहितुर्मम
इत्येवं कथितं सर्वं जाह्नवीजन्म पुण्यदम्
नारायणश्च ब्रह्माणमुवाच कृपया पुनः
श्रीनारायण उवाच अत्र स्नात्वाऽभिशप्तस्त्वं पूतो भव ममाज्ञया
त्वं चेत्सत्यं स्वयं पूतः स्पर्शं वाञ्छन्ति तानि ते
तथापि शापमुक्तस्त्वमत्र प्रकृतिहेलनात्
शीघ्रं त्वं गच्छ गोलोकं ममालयं परात्परम्
प्रकृतिं भज कल्याण सृष्टिबीजस्वरूपिणीम्
तव मन्त्रं न गृह्णन्ति केऽपि वेश्याऽभिशापतः
त्वमेव जगतां धाता स्वात्मारामश्च योषितः
तदा ममाज्ञया ब्रह्मा स्नात्वा च जाह्नवीजले
ते देवा मुनयः सर्वे प्रजग्मुः स्वालयं मुदा 4.35.
विधिरागत्य गोलोकं संप्राप्य भारतीं सतीम्
वागीश्वरीं च संप्राप्य ब्रह्मा प्रमुदितः स्वयम्
तत आगत्य मां नत्वा प्राप्य त्रैलोक्यमोहिनीम्
रतिं चिरतरं कृत्वा विरराम स्वयं विधिः
काचित्स्वकर्मणा साध्वी पूज्या च स्थिरयौवना
विदग्धाया विदग्धेन संगमो गुणवान्भवेत्
अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे
ददृशुब्रर्ह्मलोकस्थास्तां देवीं कौतुकान्विताः
शरच्छीतांशुवदनां शरत्पङ्कजलोचनाम्
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिमनोहराम् 4.35.
रत्नकुण्डलयुग्मेन कर्णमूलविराजिताम्
वह्निशुद्धांशुकं सूक्ष्मं बिभ्रतीं नवयौवनाम्
वीणापुस्तकहस्तां च व्याख्यामुद्राकरां वराम्
पुरीं प्रवेशयामासुर्ब्रह्माणं भारतीं मुदा
अतीव सुखसंभोगे निमग्नः सततं मुदा
प्राणेशवचनं श्रुत्वा प्रहस्य परमेश्वरी
श्रीराधिकोवाच न कर्मक्षेत्रे रहसि फलदाता च कर्मणाम्
उपस्थितायास्त्यागे च महान्दोषो हि योषितः