गत्वा मूर्तीर्विनिर्माय सर्वाश्च तादृशीरिति
तत्स्वभावास्तन्मनस्कास्तत्तद्विषयमानसाः
तदधिष्ठातृदेवी च आजगाम स्वमालयम्
मुक्तिदा च मुमुक्षूणां भक्तानां हरिभक्तिदा
यस्याश्च स्पर्शवायोश्च संपर्केण विनश्यति
किमुत स्नानजन्यं च कथयामि निरूपणम्
वेदोक्तं च तदेवास्याः कलां नार्हंति षोडशीम् 4.34.
गामागता स्रोतसोंऽशाद्गङ्गा तेन प्रकीर्तिता
तस्य कन्यास्वरूपा सा जाह्नवी तेन कीर्तिता
धाराभिस्तिसृभिः स्वर्गं पृथिवीमतलं तथा
प्रधानधारया स्वर्गे सा च मन्दाकिनी स्मृता
क्षीरतुल्यजला शश्वदत्युत्तुङ्गतरङ्गिणी
स्वर्गाद्धिमाद्रिमार्गेण पृथिवीमागता मुदा
शुद्धस्फटिकसंकाशा बहुवेगवती सती
अहो सगरवंशेभ्यो निर्वाणमुक्तिदायिनी
अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम्
गङ्गासोपानमारुह्य सन्तो यान्ति निरामयम् ।। 4.34.
दैवात्पुरा प्राक्तनेन मग्नं चेत्कृतपातकैः
ततो भोगो भवेत्तेषां निश्चितं पापपुण्ययोः
ततः पुण्यवतां गेहे लब्ध्वा जन्म च भारते
मृतद्विजानां देहांश्च दैवाच्छूद्रा वहन्ति चेत्
ततस्तेषां च साहाय्यं करोति हरिरूपिणी
जन्म पुण्यवतां गेहे कारयित्वा च भारते
यात्रां कृत्वा तु यः शुद्धौ स्नातुं याति सुरेश्वरीम्
गङ्गां प्राप्यानुषङ्गेण स्नाति चेत्समलो नरः
कलौ पञ्च सहस्राब्दं स्थितिस्तस्याश्च भारते
कलौ दशसहस्राणि वर्षाणि प्रतिमा मम 4.34.
अतलं याति या धारा सा च भोगवती स्मृता
आकरामूल्यरत्नानां मणीन्द्राणां च संततम्
स्वयं देवी च वैकुण्ठं वेष्टयित्वा च संततम्