वाहनादवरुह्याशु भक्तिनम्रात्मकन्धरः
आजग्मुर्मुनयः सर्वे सुराः शक्रादयस्तथा
पुलकाञ्चितसर्वाङ्गास्तुष्टुवुः पुरुषोत्तमम्
एतस्मिन्नन्तरे तत्र संगीतं शंकरो जगौ
आवयोश्च गुणाख्यानं राससंबन्धि सुन्दरम्
यत्र कण्ठैकमानेन चैकतानेन चारुणा
गमकेनातिदीर्घेण मदेन मधुरेण च 4.34.
पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः पुनःपुनः
बभूवु रुद्ररूपाश्च मुनयः पुरतः प्रिये
नारायणश्च लक्ष्मीश्च गायकश्च शिवः स्वयम्
गत्वा मूर्तीर्विनिर्माय सर्वाश्च तादृशीरिति
तत्स्वभावास्तन्मनस्कास्तत्तद्विषयमानसाः
तदधिष्ठातृदेवी च आजगाम स्वमालयम्
मुक्तिदा च मुमुक्षूणां भक्तानां हरिभक्तिदा
यस्याश्च स्पर्शवायोश्च संपर्केण विनश्यति
किमुत स्नानजन्यं च कथयामि निरूपणम्
वेदोक्तं च तदेवास्याः कलां नार्हंति षोडशीम् 4.34.
गामागता स्रोतसोंऽशाद्गङ्गा तेन प्रकीर्तिता
तस्य कन्यास्वरूपा सा जाह्नवी तेन कीर्तिता
धाराभिस्तिसृभिः स्वर्गं पृथिवीमतलं तथा
प्रधानधारया स्वर्गे सा च मन्दाकिनी स्मृता
क्षीरतुल्यजला शश्वदत्युत्तुङ्गतरङ्गिणी
स्वर्गाद्धिमाद्रिमार्गेण पृथिवीमागता मुदा
शुद्धस्फटिकसंकाशा बहुवेगवती सती
अहो सगरवंशेभ्यो निर्वाणमुक्तिदायिनी
अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम्
गङ्गासोपानमारुह्य सन्तो यान्ति निरामयम् ।। 4.34.
दैवात्पुरा प्राक्तनेन मग्नं चेत्कृतपातकैः
ततो भोगो भवेत्तेषां निश्चितं पापपुण्ययोः
ततः पुण्यवतां गेहे लब्ध्वा जन्म च भारते