त्वया कृतं च यत्कर्म इह केन न तत्कृतम् 4.33.
स्त्रीणां विडम्बनेनैव प्रकृतेश्च विडम्बनम्
क्रीडाक्षेत्रे ब्रह्मलोके कस्तवेन्द्रियनिग्रहः
स्वयं रहसि कामार्ता न सा त्याज्या जितेन्द्रियैः
भवेदेव हि दुःखार्ता शापं दद्याच्च तं ध्रुवम्
लोभात्कामसुखाद्वाऽपि सोऽधमो नात्र संशयः
त्यक्त्वा स्वस्वामिनं या च परं गच्छति कामतः
उपायेन च या साध्यं करोति परपूरुषम्
स्वर्वेश्या च दिवं याति सततं कुलधर्मतः
तमुपायं करिष्यामि शप्तो यत्र विशुद्ध्यति
एतस्मिन्नंतरे कश्चिदाजगाम हरेः पुरः 4.33.
द्वारपाल उवाच द्वारे तिष्ठन्महाभक्तस्त्वां द्रष्टुं स्वयमागतः
द्वारपालवचः श्रुत्वा स चैवानुमतिं ददौ
स्तोत्रैरतिविचित्रैश्च चतुर्वक्त्राऽश्रुतैरहो
नारायणो द्वारपालानित्युवाच चतुर्भुजान्
एतस्मिन्नन्तरे तत्र वृन्दावनविनोदिनि
दिव्यैः स्तोत्रैश्च तुष्टाव निगूढमतिसुन्दरैः
तदनन्तरयोरग्रे भक्तस्य शतमुखः स्वयम्
आजगामान्यब्रह्माण्डाधिपो ब्रह्मा हरेः पुरः
स्तुत्वोवास वरैः स्तोत्रैः सर्वेषामश्रुतैरहो
वार्ता विषयिणां चैव सुराणां च क्रमेण च 4.33.
आत्मानं विष्णुसदृशं मन्यमानस्य दर्पतः
दृष्ट्वा च कृपया तत्र मृततुल्यं चतुर्मुखम्
तत्प्रमाणाश्च ब्रह्माण्डा ब्रह्माणः सन्ति सन्ततम्
स मेने विधिरात्मानमत्यल्पविषयाधिपम्
वद तत्किमिदं दृष्टं स्वप्नवद्भवताऽधुना
भूतं भव्यं भविष्यं च तव मायासमुद्भवम् सर्वान्तर्यामी भगवांस्तस्योपायं विनिर्ममे
सस्मितो वृषभेन्द्रस्थो विभूतिभूषणः स्वयम्
व्याघ्रचर्माम्बरधरो नागयज्ञोपवीतकः
त्रिशूलपट्टिशकरो बिभ्रत्खट्वाङ्गमुत्तमम्