आसुरिश्च प्रचेताश्च स्वयं शुक्रो बृहस्पतिः 4.33.
सनकश्च सनन्दश्च कर्दमश्च सनातनः
शातातपः पिप्पलश्च शंकुः शुक्रः पराशरः
दुर्वासाश्च जरत्कारुरास्तीकश्च विभाण्डकः
दृष्ट्वैतांश्च तपोनिष्ठानागतांश्च मुनीश्वरान्
तत्रोवास जगद्धाता तद्धामपार्श्वतश्च सा
आशिषं युयुजे ब्रह्मा वासयामास तान्विभुः
पप्रच्छुर्मुनयो देवं कथमेषा तवान्तिके
श्रुत्वा मुनीनां वचनमुवाच तान्प्रजापतिः
अपूर्वं नृत्यगीतं च चिरं कृत्वा शुभावहा इत्युक्त्वा जगतां धाता जहास मुनि संसदि
जहसुर्मुनयः सर्वे सर्वज्ञास्तत्र राधिके 4.33.
सद्यश्चुकोप कुलटा हास्यव्याजेन संसदि
रक्तपङ्कजनेत्रा च कोपप्रस्फुरिताधरा संबोध्योवाच ब्रह्माणं मृत्युकन्या यथा रुषा
मोहिन्युवाच
किं वा वेदप्रणिहितं कर्म किं तद्विपर्ययम्
स्वकन्यायां यत्स्पृहा स कथं हससि नर्तकीम्
सतां कर्म विरुद्धं यत्तदत्यन्तविडम्बनम्
यतो हससि गर्वेण ततोऽपूज्यो भवाचिरम्
निबोध वचनं ब्रह्मन्वेश्यायाश्च तु सांप्रतम्
भविता तस्य विघ्नश्च स यास्यत्युपहास्यताम्
तव माघ्यां च संक्रान्त्यां न भविष्यति सा पुनः 4.33.
पुनः पूजा न भविता या गता सा गतैव च
तेन सार्द्धं रतिं कृत्वा बभूव विज्वरा पुनः
अयं कथं मया शप्तो जगद्विधिरतिप्रियः
स्वयं विधाता जगतां चकम्पे नतकन्धरः
शरणं व्रज वैकुण्ठमित्युक्त्वा ते गृहान्ययुः
शान्तं तं कमलाकान्तं श्यामं नारायणाभिधम्
तत्रोवास जगत्कर्ता नातिदूरे समीपतः
दीनबन्धुं दयासिन्धुं विपत्तारणकारणम् सत्यं सारं हितं वाक्यं जगतां च सुखावहम्
श्रीनारायण उवाच