ब्रह्मोवाच दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे
जन्मोर्मिसंघसहिते योषिन्नक्रौघसंकुले
प्रथमामृतरूपे च परिणामविषालये
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम्
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु 4.32.
इत्युक्त्वा जगतां धाता विरराम सनातनः
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्
मम मायां विनिर्जित्य संज्ञानं लभते ध्रुवम्
श्रीकृष्ण उवाच मनोमत्तगजेन्द्रं च कामासक्तं निवारयन्
दिव्यज्ञानांकुशे नैव मया दत्तेन राधिके
मोहिन्युवाच करोत्याकृष्य संभोगं यः स एवोत्तमो विभो
ज्ञात्वा स्फुटमभिप्रायं नार्या संप्रेषितो हि यः
पुनःपुनः प्रेषितश्च स्त्रिया कामार्तया च यः
गृही तपस्वी कामी वा त्यजेत्स्त्रियमुपस्थिताम्
नष्टश्रीर्भ्रष्टरूपश्च भ्रष्टबुद्धिर्भवेद् ध्रुवम्
उत्तिष्ठ जगतीनाथ पारं कुरु स्मरार्णवे
अतीव निर्जनस्थाने सर्वजन्तुविवर्जिते
सततं त्वन्मनस्कां मां दासीं जन्मनि जन्मनि 4.33.
इत्युक्त्वा मोहिनी सद्यो जगत्स्रष्टुश्च ब्रह्मणः
विज्ञाय समयं धाता तामुवाच भयातुरः
ब्रह्मोवाच न कुरु त्वं च त्रैलोक्ये स्त्रीजातीनामपत्रपाम्
त्यज मामम्बिके पुत्रं वृद्धं निष्काममेव च
निषेकाल्लभते पत्नी गुरुं भर्तुः शुभाशुभम्
त्वया सह मम रते निबन्धो नास्ति सुव्रते
इत्युक्तवन्तं ब्रह्माणं स्मरन्तं मत्पदाम्बुजम्
एतस्मिन्नन्तरे शीघ्रं स्थानं तत्सुमनोहरम्
अत्रिः पुलस्त्यः पुलहो वसिष्ठः क्रतुरंगिराः