केचित्पठन्ति सर्वार्थं जानन्ति गुरुवक्त्रतः
तपस्वी नवघाती च त्वं च ब्रह्मा च कर्मणा
काचिद्वेश्या तदाहारं भुङ्क्ते कृत्वाऽङ्ग विक्रयम्
येषामालिङ्गनेनैव कर्मणां खण्डनं भवेत्
तत्कर्मफलबीजं च सर्वेषां जनको हरिः
सर्वेभ्यो बलवान्नित्यं कर्मरूपी जनार्दनः
जगत्स्रष्टुरीश्वरस्य पादाब्जं द्रष्टुमागता
तमीश्वरं पतिं कर्तुमिच्छया स्वयमागता
कस्यचित्पादरजसा यशसा भान्ति योषितः 4.32.
स्वयं विधाता जगतां चकम्पे कुलटाभयात्
स्वाङ्गं च दर्शयामास कामबाणप्रपीडिता
आविर्भूय पञ्च बाणान्निचिक्षेप च ब्रह्मणि
उन्मत्तबीजं ज्वलदं शश्वच्चेतनहारकम्
किंकरान्प्रेषयामास संमोहाय पितुर्मुदा
नियुज्याभ्यन्तरं गत्वा तद्विकारं चकार ह । षट्पदः सुन्दरं सूक्ष्मं जुगुञ्जे पुरतः स्थितः
सततं मुदितस्तत्र बभ्राम च मधुः स्वयम्
ददर्श मोहिनी भावं प्रहस्य च पुनः पुनः
विधाता बुबुधे सर्वं सर्वबन्धनिबन्धनम् 4.32.
तुष्टाव मनसा कृष्णं शान्तं हृत्पङ्कजस्थितम्
अतीव कमनीयं च किशोरं स्थिरयौवनम्
ब्रह्मोवाच दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे
जन्मोर्मिसंघसहिते योषिन्नक्रौघसंकुले
प्रथमामृतरूपे च परिणामविषालये
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम्
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि
न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु 4.32.
इत्युक्त्वा जगतां धाता विरराम सनातनः
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्