या मां यासि हि तांस्त्यक्त्वा सा विदग्धा च कामुकी
स्त्री चेत्प्रयाति पुरुषं विपरीतं विडम्बनम्
स्वयं प्रार्थयते स्वामी न तु स्वामिनमेव च
भवेद्दूरं स्वल्पमूल्यं रत्नं स्वयमुपस्थितम्
लोकाचारेषु वेदेषु न स्त्री याति परप्रियम्
स पूज्यो न भवेत्पूज्यो यद्रतिः परवस्तुषु
स्वेन्द्रियाः शत्रवः सर्वे शत्रुता यन्निमित्ततः
कृते वेदविरुद्धे च मित्रं शत्रुर्भवेद्ध्रुवम्
हरौ तुष्टे जगत्तुष्टं तस्मिन्रुष्टे भवो रिपुः 4.32.
स्वकीयाचरणात्सर्वं भवे भवति कर्मणः
दुःशीला पुंश्चली निन्द्या सुशीला च पतिव्रता
तासामेवंविधा नास्ति स्वयं याति परप्रियम्
भवे रत्यै स्वयं दृष्ट्वा वेषं कृत्वा प्रयाति तम्
वैकुल्यान्नहि तत्साध्यं सामान्यमेव केवलम् वक्तुं समुद्यता सा च कोपप्रस्फुरिताधरा
मोहिन्युवाच
त्वया निबोधिता नीतिर्मनो मे न स्थिरं भवेत्
त्वद्वक्त्रदृष्टिमात्रेण सर्वे जाराश्च विस्मृताः
निषिषेध च मां रम्भा प्रददौ मन्त्रमीदृशम्
समधुस्तव शापेन स जगाम हतोद्यमः 4.32.
सर्वाङ्गेष्वेव मे जाड्यं बभूव सांप्रतं विभो
तवाश्लेषणमात्रेण विज्वराऽहं सुनिश्चितम्
सन्तो गर्वं न कुर्वन्ति कर्मसाध्याश्च जीविनः
करं गृह्णाति नृपतिः कर्मणा ददति प्रजाः
कर्मणा वाहकाः केचित्केचिद्वाहनपालकाः
कश्चिच्छच्याश्च जठरं तव पुत्राश्च केचन
केचिद्भवन्ति कृमयो विष्ठायां दैवदोषतः
केचित्प्रयान्ति नरकं विण्मूत्रे तत्र पच्यते
केचित्सुरा नराः केचित्केचिच्च क्षुद्रजन्तवः
केचिद्भूपा वैश्यशूद्राः केचिच्च म्लेच्छजातयः 4.32.
केचिन्मूर्खाः केचिदन्धाः स्वाङ्गहीनाश्च केचन