मन्त्रपूतं महास्त्रं च चिक्षेप पितरं मुदा
क्षणं निरीक्षणं चक्रे मोहिन्यास्ये पुनःपुनः
बुबुधे मनसा सर्वं चरितं मन्मथस्य च
हे काम यौवनोन्मत्त मूढैश्वर्येण गर्वित
हतोद्यमो जगामाशु मन्मथो मधुना सह
इत्युवाच जगद्धाता मोहिनीं मदनातुराम्
ब्रह्मोवाच ज्ञातस्तवाभिप्रायश्च नाहं योग्योऽस्य कर्मणः
वेदे जुगुप्सितं कर्म तदेव कर्तुमक्षमः
अकीर्तिं वेदवक्तुश्च निन्द्यं च किमतः परम् 4.32.
श्रुतौ श्रुतमिति त्याज्या सर्वदैव तपस्विनाम्
धनायुःप्राणयशसां नाशिनी दुःखदायिनी
निष्ठुरा नवघातिभ्यः सर्वापद्बीजरूपिणी
परद्रोहाद्यथा संपत्कुलटाप्रेम तत्समम्
यो विश्वसेत्तां संमूढो विपत्तस्य पदेपदे
यूनां संपत्स्वरूपा च विषतुल्या तपस्विनाम्
तवैव कर्म योग्यं च युवानं पश्य सुन्दरि
विदग्धाया विदग्धेन संगमो गुणवान्भवेत्
अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे
नात्राऽहं च जगत्स्रष्टा तस्मात्तव पिता सदा 4.32.
स्वर्वैद्यौ चंद्रतनयं दितिपुत्रांश्च सुंदरान्
या मां यासि हि तांस्त्यक्त्वा सा विदग्धा च कामुकी
स्त्री चेत्प्रयाति पुरुषं विपरीतं विडम्बनम्
स्वयं प्रार्थयते स्वामी न तु स्वामिनमेव च
भवेद्दूरं स्वल्पमूल्यं रत्नं स्वयमुपस्थितम्
लोकाचारेषु वेदेषु न स्त्री याति परप्रियम्
स पूज्यो न भवेत्पूज्यो यद्रतिः परवस्तुषु
स्वेन्द्रियाः शत्रवः सर्वे शत्रुता यन्निमित्ततः
कृते वेदविरुद्धे च मित्रं शत्रुर्भवेद्ध्रुवम्
हरौ तुष्टे जगत्तुष्टं तस्मिन्रुष्टे भवो रिपुः 4.32.
स्वकीयाचरणात्सर्वं भवे भवति कर्मणः