विधाता जगतां तस्याः श्रुत्वा संगीतमीप्सितम्
दृष्ट्वा मुग्धं चतुर्वक्त्रं मोहिनी हृष्टमानसा
स्वाङ्गं संदर्शयामास स्मेरभ्रूभङ्गपूर्वकम्
विज्ञाय ब्रह्मा तद्भावं नतवक्त्रो बभूव ह
विज्ञाय ब्रह्मणो भावं शुष्ककण्ठोष्ठतालुका
मोहिन्युवाच तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते
स्वयमात्मा हि भगवाञ्ज्ञानरूपो महेश्वरः
सृष्टिः सर्वशरीरेषु दृष्टिश्च योगिनामपि
सर्वाजित जगज्जेतर्जीव जीवमनोहर
शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय 4.31.
पतिसाध्यकराशेषरूपाधार गुणाश्रय
शश्वद्योनिकृताधार स्त्रीसंदर्शनवर्धन
अकृपा येषु तेऽनर्थास्तेषां ज्ञानविनाशनम्
तपस्विनां च तपसां विघ्नबीजावलीलया
तपःसाध्याश्चाराध्याश्च सदैवं पाञ्चभौतिकाः
मोहिनीत्येवमुक्त्वा तु मनसा सा विधेः पुरः
उक्तं माध्यंदिने कान्ते स्तोत्रमेतन्मनोहरम्
स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदा पठेत्
चेष्टां न कुरुते कामः कदाचिदपि तं प्रियम् वनितां लभते साध्वीं पत्नीं त्रैलोक्यमोहिनीम्
श्रीकृष्ण उवाच चकार शरसंधानमन्तरिक्षे स्थितः स्वयम्
मन्त्रपूतं महास्त्रं च चिक्षेप पितरं मुदा
क्षणं निरीक्षणं चक्रे मोहिन्यास्ये पुनःपुनः
बुबुधे मनसा सर्वं चरितं मन्मथस्य च
हे काम यौवनोन्मत्त मूढैश्वर्येण गर्वित
हतोद्यमो जगामाशु मन्मथो मधुना सह
इत्युवाच जगद्धाता मोहिनीं मदनातुराम्
ब्रह्मोवाच ज्ञातस्तवाभिप्रायश्च नाहं योग्योऽस्य कर्मणः
वेदे जुगुप्सितं कर्म तदेव कर्तुमक्षमः
अकीर्तिं वेदवक्तुश्च निन्द्यं च किमतः परम् 4.32.
श्रुतौ श्रुतमिति त्याज्या सर्वदैव तपस्विनाम्