सकामा सा च कुलटा बभूव हतचेतना 4.31.
सर्वं जारं विसस्मार तत्याज हरिमीश्वरी
तप्तपात्रे यथा सस्यं भ्रमत्येव तथा पथि
गच्छन्ती कामलोकं सा सकामा तेन वर्त्मना अभिप्रायेण बुबुधे पप्रच्छ सस्मिता तदा
वद शीघ्रं महाभागे रम्भाऽहं चेतनं कुरु
कुलटा सर्वसौभाग्या न वयं कुलपालिकाः
यान्ति प्राणा यतः काले का लज्जा तत्र जीविनाम्
कान्तेऽपत्ये स्वबन्धौ च स्नेहो यः स्वात्महेतुकः
येषु यन्मानसं शश्वत्तेषां प्राणास्त एव हि
सह सख्या समालोक्य मनसा गच्छ तं प्रियम् 4.31.
मुनिमोहनबीजं च तं मोहं कुरु मोहिनि
रक्षात्मानं प्रभावं च स्त्रीजातीनां जगत्त्रये
स्वान्तं कान्तं स्वानुरक्तमृज्वीं सहचरीं विना
अन्यथा चोपहासाय मरणायैव कल्पते हृद्यं च कथयामास यद्धेतोस्तादृशी गतिः
मोहिन्युवाच
तावन्मनो मेऽतिदग्धं शश्वन्मनसिजानलैः
जानामि नाहमुदयं यामिनीशदिनेशयोः
मम प्राणाः प्रतीक्षन्ते तस्यालिङ्गनमेव च
कामज्वालाकलापैश्च स्वर्णाकारं कलेवरम्
गन्तुं स्थातुं न शक्ताऽहं शयनं कर्तुमुद्यता 4.31.
कमुपायं करिष्यामि वद रम्भेऽतिसाम्प्रतम्
मोहिनीवचनं श्रुत्वा प्रहस्याप्सरसां वरा
रम्भोवाच सर्वं त्वपनयिष्यामि शृणूपायं भयं त्यज
कृत्वा वेषमपूर्वं च पूर्वमाराध्य मन्मथम्
जितेन्द्रियाणां प्रवरं साक्षान्नारायणात्मकम्
भज कामं तपः कृत्वा पुष्करे व्रज मोहिनि
इत्युक्त्वा तामप्सरसां प्रवरा काममन्तिकम्
पुष्करे च तपः कृत्वा कामं संप्राप्य मोहिनी
ददर्श निर्जनस्थं च मोहिनी कमलोद्भवम्
क्षणं ननर्त सुचिरं सुगानेन क्षणं जगौ 4.31.