ऋषयो मुनयः सिद्धाः प्रकुर्वन्तो मुदाऽऽशिषम् 4.31.
राजा च पार्षदान्ध्यात्वा तद्रूपश्च बभूव ह
मदीयः पार्षदो भूत्वा स च तस्थौ ममान्तिके
पुष्पोद्याने च रम्ये च पुष्पचन्दनवायुना
विलोक्य वक्रनयना जुगोप सस्मितं मुखम्
चारुचम्पकवर्णाभा सततं स्थिरयौवना
शरत्पार्वणशुभ्रांशुप्रभामुष्टकरानना
त्रैलोक्यं मोहितुं शक्ता कटाक्षैरेव लीलया
पुलकाञ्चितसर्वाङ्गी मूर्च्छां संप्राप वर्त्मनि
स विकारं न हि प्राप ह्यात्मारामो जितेंद्रियः
सकामा सा च कुलटा बभूव हतचेतना 4.31.
सर्वं जारं विसस्मार तत्याज हरिमीश्वरी
तप्तपात्रे यथा सस्यं भ्रमत्येव तथा पथि
गच्छन्ती कामलोकं सा सकामा तेन वर्त्मना अभिप्रायेण बुबुधे पप्रच्छ सस्मिता तदा
वद शीघ्रं महाभागे रम्भाऽहं चेतनं कुरु
कुलटा सर्वसौभाग्या न वयं कुलपालिकाः
यान्ति प्राणा यतः काले का लज्जा तत्र जीविनाम्
कान्तेऽपत्ये स्वबन्धौ च स्नेहो यः स्वात्महेतुकः
येषु यन्मानसं शश्वत्तेषां प्राणास्त एव हि
सह सख्या समालोक्य मनसा गच्छ तं प्रियम् 4.31.
मुनिमोहनबीजं च तं मोहं कुरु मोहिनि
रक्षात्मानं प्रभावं च स्त्रीजातीनां जगत्त्रये
स्वान्तं कान्तं स्वानुरक्तमृज्वीं सहचरीं विना
अन्यथा चोपहासाय मरणायैव कल्पते हृद्यं च कथयामास यद्धेतोस्तादृशी गतिः
मोहिन्युवाच
तावन्मनो मेऽतिदग्धं शश्वन्मनसिजानलैः
जानामि नाहमुदयं यामिनीशदिनेशयोः
मम प्राणाः प्रतीक्षन्ते तस्यालिङ्गनमेव च
कामज्वालाकलापैश्च स्वर्णाकारं कलेवरम्
गन्तुं स्थातुं न शक्ताऽहं शयनं कर्तुमुद्यता 4.31.