मुनिः पप्रच्छ दृष्ट्वा तां का त्वं कामिनि निर्जने
मुनेश्च वचनं श्रुत्वा कम्पिता च कलावती
कलावत्युवाच पुत्रार्थिनी चागताऽहं त्वन्मूलं भर्तुराज्ञया
वीर्य्याधानं कुरु मयि स्त्री नोपेक्ष्या ह्युपस्थिता
वृषलीवचनं श्रुत्वा चुकोप मुनिसत्तमः
काश्यप उवाच तं सा त्यजति मूढं च वेदवाद इति ध्रुवम्
न त्वं द्रुमिलभोगार्हा पुनरेव भविष्यसि
यः शूद्रपत्नीं गृह्णाति ब्राह्मणो ज्ञानदुर्बलः
पितृश्राद्धे च यज्ञे च शिलास्पर्शे सुरार्चने
कुम्भीपाकं स्वयं याति पातयित्वा च पूरुषान् 1.20.
तत्तर्पणं मूत्रमेव पिण्डं सद्यः पुरीषकम्
तदिष्टदेवो गृह्णाति न नैवेद्यं न तज्जलम्
कुम्भीपाके पच्यते स शक्रान्तं यावदेव हि
पत्रोच्छिष्टं च यो भुङ्क्ते शूद्राणां ब्राह्मणाधमः
शूद्रो वा यदि गृह्णाति ब्राह्मणीं ज्ञानदुर्बलः
अष्टादशेन्द्रावच्छिन्नं कालं च कालसूत्रके
ततश्चण्डालयोनौ च लब्ध्वा जन्म च ब्राह्मणी
इत्युक्त्वा च मुनिश्रेष्ठो विरराम च शौनक
एतस्मिन्नन्तरे तेन पथा याति च मेनका
ऋतुस्नाता च वृषली पीत्वा तत्र क्षणं मुदा 1.20.
गत्वा प्रणम्य द्रुमिलं कान्ता कान्तं मनोहरम्
कलावतीवचः श्रुत्वा प्रहृष्टवदनेक्षणः
द्रुमिल उवाच वैष्णवो भविता बालस्त्वं च भाग्यवती सती
यद्गर्भे वैष्णवो जातो यस्य वीर्येण वा सति
तौ च विष्णुविमानेन सद्रत्ननिर्मितेन च
कस्यचिद्ब्राह्मणस्यैव गेहं गच्छ शुभानने
इत्युक्त्वा गोपराजश्च स्नात्वा कृत्वा तु तर्पणम्
अश्वानां च चतुर्लक्षं गजानां लक्षमेव च
उच्चैःश्रवः पञ्चलक्षं रथानां च सहस्रकम्
गवां द्वादशलक्षं च महिषाणां त्रिलक्षकम् 1.20.