निष्कामेन च वृद्धेन मया किं ते प्रयोजनम्
इत्येवं वचनं श्रुत्वा चुकोपाप्सरसां वरा
रम्भोवाच तपःप्रभावात्सश्रीकः सुवेषः संमतः स्त्रियाः
त्वया विनाऽन्यं कं यामि को वास्ति त्वत्परः पुमान्
शीघ्रं मां भज विप्रेन्द्र दग्धां कामाग्निना सदा
न चेच्छापं प्रदास्यामि वद वेदविदां वर
दग्धाः प्राणा मनोदग्धं स्वात्मा वा इति संततम्
स्वान्तर्दुःखेन दुःखार्तो यो यं शपति निश्चितम्
द्विजो रम्भावचः श्रुत्वा बभूव ध्यानतत्परः 4.30.
त्यक्ताहारस्यान्तरं च भस्मपूर्णं ततो मुनेः 4.30.
निष्कलः पुंश्चली शापाद्ब्रह्माऽपूज्यो यथा पुरा सुखदं पुण्यदं गूढं किं भूयः श्रोतुमिच्छसि
किमाश्चर्यं श्रुतं नाथ चरितं सुमनोहरम्
यो विधाता त्रिजगतां तपसां फलदायकः
श्रीकृष्ण उवाच तपस्वी वैष्णवः श्रेष्ठो ज्ञानी परमधार्मिकः
स च पूर्वं तपः कुर्वन्नाजगाम मम प्रिये
तपश्चकार राजेन्द्रो वर्षाणां च सहस्रकम्
वल्मीकाच्छादितं देहं दृष्ट्वा धाता कृपानिधिः
कमण्डलुजलेनैव मम देहोद्भवेन च
कमण्डलुजलस्पर्शादुत्थाय नृपतिः स्वयम्
स तं नमन्तं राजानमुवाच कमलोद्भवः
तस्य तद्वचनं श्रुत्वा वरं वव्रे परात्परम् 4.31.
कृपया च वरं ब्रह्मा दत्तवानभिवाञ्छितम्
एतस्मिन्नन्तरे राजा ददर्श रथमुत्तमम्
तेजसाऽऽच्छादितं सर्वं सुप्रदीप्तं दिशो दश
अमूल्यरत्नरचितं विचित्रकलशोज्ज्वलम्
सद्रत्नदर्पणैर्दीप्तैरतीव सुमनोहरम्
पारिजातप्रसूनानां मालाजालैः सुशोभितम्
वेष्टितं पार्षदैर्दिव्यै रत्नभूषणभूषितैः
पीतवस्त्रपरीधानैश्चन्दनागुरुचर्चितैः
सहसा तस्य शिरसि पुष्पवृष्टिर्बभूव ह