पुंश्चली हिंस्रजन्तुभ्यो नवघातिभ्य एव च
त्यज ध्यानं मुनिश्रेष्ठ भुंक्ष्वेदं तपसः फलम्
स रम्भावचनं श्रुत्वा तामुवाच भयाकुलः
देवल उवाच कुलधर्मोचितं सत्यं ब्राह्मणानां तपस्विनाम्
धर्मोऽयं युक्तकाले च स्वयोषिति रतो द्विजः
ब्राह्मणः क्षत्रियो वैश्यो यो रतः परयोषिति
ग्राह्या चोपस्थिता स्त्री च गृहिणा न तपस्विना
ब्रह्मा जगद्विधाताऽपि न विरक्तः कलत्रवान्
स्वभार्यां च परित्यज्य यो गृह्णाति परस्त्रियम् 4.30.
भुवि नास्ति यशो यस्य जीवनं तस्य निष्फलम्
निष्कामेन च वृद्धेन मया किं ते प्रयोजनम्
इत्येवं वचनं श्रुत्वा चुकोपाप्सरसां वरा
रम्भोवाच तपःप्रभावात्सश्रीकः सुवेषः संमतः स्त्रियाः
त्वया विनाऽन्यं कं यामि को वास्ति त्वत्परः पुमान्
शीघ्रं मां भज विप्रेन्द्र दग्धां कामाग्निना सदा
न चेच्छापं प्रदास्यामि वद वेदविदां वर
दग्धाः प्राणा मनोदग्धं स्वात्मा वा इति संततम्
स्वान्तर्दुःखेन दुःखार्तो यो यं शपति निश्चितम्
द्विजो रम्भावचः श्रुत्वा बभूव ध्यानतत्परः 4.30.
त्यक्ताहारस्यान्तरं च भस्मपूर्णं ततो मुनेः 4.30.
निष्कलः पुंश्चली शापाद्ब्रह्माऽपूज्यो यथा पुरा सुखदं पुण्यदं गूढं किं भूयः श्रोतुमिच्छसि
किमाश्चर्यं श्रुतं नाथ चरितं सुमनोहरम्
यो विधाता त्रिजगतां तपसां फलदायकः
श्रीकृष्ण उवाच तपस्वी वैष्णवः श्रेष्ठो ज्ञानी परमधार्मिकः
स च पूर्वं तपः कुर्वन्नाजगाम मम प्रिये
तपश्चकार राजेन्द्रो वर्षाणां च सहस्रकम्
वल्मीकाच्छादितं देहं दृष्ट्वा धाता कृपानिधिः
कमण्डलुजलेनैव मम देहोद्भवेन च
कमण्डलुजलस्पर्शादुत्थाय नृपतिः स्वयम्
स तं नमन्तं राजानमुवाच कमलोद्भवः