श्रुत्वैतच्चरितं विप्रो जगाम शिवसन्निधिम्
सकलत्रो यथा योगी तुष्टाव योगिनां गुरुम्
असित उवाच योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः
मृत्योमृर्त्युस्वरूपेण मृत्युसंसारखण्डन
कालरूपं कलयतां कालकालेश कारण
गुणातीत गुणाधार गुणबीज गुणात्मक
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्
स लभेद्वै ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् 4.30.
अभार्यो लभते भार्यां सुशीलां च पतिव्र ताम्
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे
श्रीकृष्ण उवाच उवाच ब्रह्मणः पुत्रं स्वभक्तं भक्तव त्सलः
शंकर उवाच पुत्रस्ते भविता सत्यं मदंशेन च मत्समः
दास्यामि मन्त्रमतुलं सर्वेषां च सुदुर्लभम्
स्तोत्रं पूजाविधानं च कवचं परमाद्भुतम्
वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च
जजाप परमं मन्त्रं सोऽसितः शतवत्सरम्
पुत्रस्ते भविता सत्यं महाज्ञानी सुतेति च
कालेन च सुतस्तस्य शिवांशेन बभूव ह 4.30.
सुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा
स्थाने स्थाने च रहसि शतवर्षं तया सह
कालान्तरे स विरतो बभूव मुनिपुंगवः
उत्थाय रात्रौ शयनाद्विरक्तश्च तपोधनः
निद्रां त्यक्त्वा च तत्कान्ता न दृष्ट्वा स्वामिनं सती
उत्तिष्ठन्ती निर्विशन्ती रुरोदोच्चैर्मुहुर्मुहुः
आहारं च परित्यज्य प्राणांस्तत्याज सुन्दरी
तपश्चकार स मुनिर्गन्धमादनगह्वरे
तं ददर्श ह दैवेन रम्भा शृंगारलोलुपा
सा च तं कथयामास निर्जने समुपस्थिता 4.30.