अष्टावक्रो मुनीन्द्रोऽपि विख्यातो भुवनत्रये 4.30.
कृष्णस्य वचनं श्रुत्वा विमनस्का हरिप्रिया
राधिकोवाच स वितृप्तो भवति किं गोष्पदोदकपानतः
वेदानां वेदवक्तॄणां विधातुर्जनकस्य च
राधिकावचनं श्रुत्वा तुष्टः कृष्णो बभूव ह
श्रीकृष्ण उवाच श्रवणात्कथनाद्यस्य सर्वं पापं प्रणश्यति
महाविष्णोर्नाभिपद्माद्बभूव जगतां विधिः
पुत्रा बभूवुश्चत्वारो ब्रह्मणो मानसात्पुरा
शिशवः पञ्चवर्षीया नग्ना अज्ञानिनो यथा
सनकश्च सनन्दश्च तृतीयश्च सनातनः
तानुवाच जगद्धाता सृष्टिं कुरुत पुत्रकाः 4.30.
विधाता विमनस्कश्च तनयेषु गतेषु च
ज्ञानेन निर्ममे पुत्रान्स्वाङ्गेषु च तपोधनान्
अत्रिः पुलस्त्यः पुलहो मरीचिर्भृगुरङ्गिराः
शङ्कुः शङ्खः पञ्चशिखः प्रचेतास्ते तपोधनाः
कलत्रवन्तस्ते सर्वे संसारं कर्तुमु न्मुखाः
तदस्तु च कथा बह्वी मुनिवंशानुकीर्तनी
प्रचेतसः सुतः श्रीमानसितो मुनिपुङ्गवः
न बभूव सुतस्तस्य प्राणांस्त्यक्तुं समुद्यतः
मन्त्राधिष्ठातृदेवीं ते सद्यः साक्षाद्भविष्यति 4.30.
श्रुत्वैतच्चरितं विप्रो जगाम शिवसन्निधिम्
सकलत्रो यथा योगी तुष्टाव योगिनां गुरुम्
असित उवाच योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः
मृत्योमृर्त्युस्वरूपेण मृत्युसंसारखण्डन
कालरूपं कलयतां कालकालेश कारण
गुणातीत गुणाधार गुणबीज गुणात्मक
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर
इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्
स लभेद्वै ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् 4.30.