ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर
प्रकृते प्राकृत प्रज्ञ प्रकृतीश परात्पर
सृष्टिस्थित्यन्तबीजेश सृष्टिस्थित्यन्तकारण
अहो यस्य त्रयः स्कन्धा ब्रह्मविष्णुमहेश्वराः
संसारविफला एव प्रकृत्यंकुरमेव च
तेजोरूप निराकार प्रत्यक्षानूहमेव च
इत्युक्त्वा स मुनिश्रेष्ठो निपत्य चरणाम्बुजे
पपात तत्र तद्देहः पादपद्मसमीपतः 4.29.
सप्ततालप्रमाणं तु चोत्थाय च पपात ह
अष्टावक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत्
प्राणाधिको मुमुक्षूणां स्तोत्रराजश्च नारद
मृते मुनौ किं चकार श्रीकृष्णो भक्तवत्सलः
श्रीनारायण उवाच कृत्वा वक्षसि तद्देहं रुरोदोच्चैर्यथा नरः
बाहुभ्यां च समाश्लिष्य पिपेषोद्रिक्तमोहतः
रक्तमांसास्थिहीनं तच्छरीरं च महात्मनः
दग्धं लोहितमांसास्थि ज्वलता जठराग्निना
चितां चन्दनकाष्ठेन निर्माय मधुसूदनः
ददौ चितायामग्निं च काष्ठं दत्त्वा शवोपरि
तद्देहे भस्मसाद्भूते नेदुर्दुन्दुभयो दिवि
एतस्मिन्नन्तरे तत्र रत्नसारविनिर्मितम्
पार्षदप्रवरैर्युक्तं श्रीकृष्णसदृशैर्वरैः 4.30.
अवरुह्य रथात्तूर्णं पार्षदप्रवरा हरेः ।। सर्वे समानरूपास्ते प्रणम्य राधिकेश्वरौ
धृतवन्तं सूक्ष्मदेहं प्रणमय्य मुनीश्वरम्
गते मुनीन्द्रे गोलोकं वृन्दावनविनोदिनी
श्रीराधिकोवाच अतिखर्वजनाकारस्तेजीयानतिकुत्सितः
कथं वा निर्गतं भस्म देहादस्य किमद्भुतम्
रथस्थः पुण्यवान्सद्यो गोलकं च जगाम ह
त्वया कृतं च सत्कारमश्रुपूर्णेन चक्षुषा
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः कथां कथितुमारेभे युगान्तरगतामपि
श्रीकृष्ण उवाच पश्चाच्छ्रोष्यसि कालेन प्रसङ्गे विदुषां मुखात्