माधवो राधया सार्द्धमन्तर्धानं चकार ह
कलामानप्रकारं च शृंगारं च चकार ह
तटे तटे नदीनां च सर्वजन्तुविवर्जिते
कालिन्दे च पुलिन्दे च मन्दिरे गन्धमादने
पुष्पभद्रापुलिनजे पुष्पोद्याने सुपुष्पिते
जगाम मलयद्रोणीं रम्यां चन्दनवायुना
अतीव सुखसंभोगान्मूर्च्छां संप्राप्य राधिका
दृष्ट्वा तां मूर्च्छितां कृष्णो घनश्रोणिपयोधराम्
चेतनां कारयामास कृत्वा वक्षसि तन्द्रिताम् 4.29.
कबरीं रचयामास किंचिद्वामेन वक्रताम्
तस्याः कपाले सिंदूरतिलकं सुन्दरं ददौ
सालक्तकांश्च नखरांश्चित्रितान्पादपद्मयोः
उत्थायाथ तया सार्द्धं जगाम हि सरोवरम्
निर्मलस्फटिकाकारजलपूर्णं मनोहरम्
तत्र स्नात्वा जलक्रीडां चकार ह तया सह
सहस्रदलपद्मे च गृहीत्वा माधवः स्वयम्
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमीप्सितम्
ततो गच्छंस्तया सार्द्धं ददर्श पुरतो वटम् 4.29.
मूले योजनपर्यन्तं छायया परिवेष्टितम्
पुष्पाक्तेन सुशीतेन वायुना सुरभीकृते
प्रहर्षितश्च श्रीकृष्णः कथयामास राधिकाम्
आगच्छन्तं च तं दृष्ट्वा प्रसन्नवदनेक्षणम्
ध्यानाद्विरतमग्रे च पश्यन्तं बहिरेव तत्
नाम्नाऽष्टवक्रं जटिलं ज्वलन्तं ब्रह्मतेजसा
अहो किं वा ब्रह्मतेजो मूर्तिमन्तमिह स्वयम्
पुटाञ्जलियुतं भक्त्या भीतं प्रणतकंधरम्
प्रभावं कथयामास मुनीन्द्रस्य महात्मनः यत्स्तोत्रं च पुरा दत्तं शंकरेण महात्मना
अष्टावक्र उवाच गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ।। 4.29.
सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर
हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर