काश्चिदूचुरहो कृष्ण सस्मिता वक्रलोचनाः
काश्चिदूचुरये कृष्ण स्वक्रोडेऽस्मांश्च कुर्विति
उवाच काचिद्दर्पेण प्रमत्ता प्राणवल्लभम्
उवाच काचिदीशं तं सिन्दूरं देहि मामिति
कृत्वा कुन्तलसंस्कारं कुरु मे कबरीमिति
स्वांगवेषविधायिन्यो भूषार्थं श्रुतिमूलयोः
पश्यन्ती तन्मुखाम्भोजं सस्मिता मैथुनाय च
जहार पीतवसनं कृत्वा नग्नं च कामिनी
अलक्तकद्रवं देहि पादयोर्नखरेषु च 4.29.
नानाचित्रविचित्राढ्यां करु पत्रावलीमिति
माधवो राधया सार्द्धमन्तर्धानं चकार ह
कलामानप्रकारं च शृंगारं च चकार ह
तटे तटे नदीनां च सर्वजन्तुविवर्जिते
कालिन्दे च पुलिन्दे च मन्दिरे गन्धमादने
पुष्पभद्रापुलिनजे पुष्पोद्याने सुपुष्पिते
जगाम मलयद्रोणीं रम्यां चन्दनवायुना
अतीव सुखसंभोगान्मूर्च्छां संप्राप्य राधिका
दृष्ट्वा तां मूर्च्छितां कृष्णो घनश्रोणिपयोधराम्
चेतनां कारयामास कृत्वा वक्षसि तन्द्रिताम् 4.29.
कबरीं रचयामास किंचिद्वामेन वक्रताम्
तस्याः कपाले सिंदूरतिलकं सुन्दरं ददौ
सालक्तकांश्च नखरांश्चित्रितान्पादपद्मयोः
उत्थायाथ तया सार्द्धं जगाम हि सरोवरम्
निर्मलस्फटिकाकारजलपूर्णं मनोहरम्
तत्र स्नात्वा जलक्रीडां चकार ह तया सह
सहस्रदलपद्मे च गृहीत्वा माधवः स्वयम्
चन्दनागुरुकस्तूरीकुङ्कुमद्रवमीप्सितम्
ततो गच्छंस्तया सार्द्धं ददर्श पुरतो वटम् 4.29.
मूले योजनपर्यन्तं छायया परिवेष्टितम्
पुष्पाक्तेन सुशीतेन वायुना सुरभीकृते