तीरं गत्वा तया सार्धं हरिर्नग्नश्च मग्नया
राधिकायै ददौ वस्त्रं रम्यां मालां च माधवः
चन्दनागुरुकस्तूरीं सर्वाङ्गे कुङ्कुमान्विताम्
निर्माय चूडां ललितां कामिनीं चित्तमोहिनीम्
श्रीकृष्णो राधिकायाश्च कबरीं सुमनोहराम्
ददौ ललाटे सिन्दूरं कस्तूरीबिन्दुभिः सह
नखाङ्गं स्तनयोरूर्वोरुरस्येव घनं मुदा
चन्दनागुरुकस्तूरीकुङ्कुमानां द्रवेण सः 4.28.
पुनराश्लेषणं कृत्वा ददौ मालां गले पुनः
अलक्तकं चरणयोर्नखेषु च ददौ पुनः
पुनः प्रजग्मुस्ता मत्ताः सुन्दरं रासमण्डलम्
माधवीकेतकीकुन्दमालतीनां मनोहरैः
दृष्ट्वा च स्फुटितं पुष्पं चयनं कर्तुमीश्वरी
काश्चिन्नियोजयामास मालानिर्माणकर्मणि
माला चन्दनताम्बूलं गोपीदत्तं च सुन्दरी
काश्चिन्नियोजनं चक्रुः कृष्णसङ्गीतकर्मणि
एवं रासे रतिं कृत्वा लीलया हरिणा सह
पुष्पोद्यानेषु रम्येषु सरसां च तटेषु च 4.28.
अतीव निर्जनस्थाने श्मशाने गिरिगह्वरे
भाण्डीरे श्रीवने रम्ये कदम्बकानने तथा
निम्बारण्ये मधुवने जम्बीरकानने तथा
बदरीकानने बिल्ववने नारिङ्गकानने
मन्दारकानने तालवने चूतवने तथा
आम्रातकवने जम्बूगहने शालकानने
न्यग्रोधगहने घोरे तथा श्रीखण्डकानने
एवं रेमे कौतुकेन कामात्त्रिंशद्दिवानिशम्
न कामिनीनां कामश्च शृङ्गारेण निवर्तते
जग्मुर्देवाः स्वगेहं च देव्यश्च मुनयस्तथा 4.28.
गेहे गेहे नृपेन्द्राणां लेभिरे जन्म भारते
श्रीनारायण उवाच अतिप्रौढाश्च मानिन्यो नेश्वरं मेनिरे पतिम्