क्षेत्रपालादयः सर्वे तथाऽष्टौ भैरवेश्वराः
भारत्या सह ब्रह्मा च शातकौम्भरथस्थितः
सुवर्णस्यन्दनस्थश्च धर्मः साक्षी च कर्मणाम्
पश्यन्ती पूर्णरासं च सकामा वक्रलोचना
शच्या सह महेन्द्रश्च रोहिण्या च कलानिधिः
समाजगाम कामश्च रतिं कृत्वा च वक्षसि
आकाशस्थाश्च ददृशुः सरासं रासमण्डलम्
मुहूर्तं च सुराः सर्वे सस्मिताश्च मुदाऽन्विताः
कस्तूरीयुक्तमाल्यानां वृष्टिं चक्रुर्मुनीश्वराः 4.28.
स्थले रतिरसं कृत्वा जगाम यमुनाजलम्
गोपीभिः सह जग्मुश्च मायाः श्रीकृष्णरूपिकाः
जलं ददौ राधिकायै सकामो माधवः स्वयम्
वस्त्रं जग्राह तस्याश्च सा च नग्ना बभूव ह
सिन्दूरपक्षकं लुप्तं वेषं च जलताडनैः
तां च नग्नां समाश्लिष्य निममज्ज जले हरिः
तां च नग्नां दर्शयित्वा गोपिकां क्रीडया नताम्
सा वेगेन समुत्थाय बलाज्जग्राह माधवम्
गृहीत्वा पीतवसनं तं चकार दिगम्बरम्
हरिं पुनः समाकृष्य प्रेषयामास पाथसि 4.28.
उत्थाय माधवः शीघ्रं तां गृहीत्वा प्रहस्य च एवं ता मूर्तयः सर्वा गोपीभिः सह कौतुकात्
तीरं गत्वा तया सार्धं हरिर्नग्नश्च मग्नया
राधिकायै ददौ वस्त्रं रम्यां मालां च माधवः
चन्दनागुरुकस्तूरीं सर्वाङ्गे कुङ्कुमान्विताम्
निर्माय चूडां ललितां कामिनीं चित्तमोहिनीम्
श्रीकृष्णो राधिकायाश्च कबरीं सुमनोहराम्
ददौ ललाटे सिन्दूरं कस्तूरीबिन्दुभिः सह
नखाङ्गं स्तनयोरूर्वोरुरस्येव घनं मुदा
चन्दनागुरुकस्तूरीकुङ्कुमानां द्रवेण सः 4.28.
पुनराश्लेषणं कृत्वा ददौ मालां गले पुनः
अलक्तकं चरणयोर्नखेषु च ददौ पुनः