प्रेषयामास कृष्णस्य क्रोडे चन्दनचर्चिते
नर्तनं कारयामास तं च काचिद्बलेन च
कांचित्कृत्वा तु नग्नां च कस्यैचिदंशुकं ददौ
तस्याश्च कबरीं रम्यां सुनिर्माणं चकार ह
अतिसूक्ष्मं चन्दनेन्दुं कौतुकात्तदधो ददौ
वह्निशुद्धांशुकं चारु परिधार्य्य प्रयत्नतः
दत्त्वा च मालतीमालां चुचुम्ब च पुनः पुनः
प्रददौ नासिकामध्ये दुर्लभं गजमौक्तिकम्
चकार दन्तदलनं पक्वबिम्बाधरे वरे 4.28.
बहिश्चन्द्रोदये रम्ये पुष्पचन्दनचर्चिते
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते
पुनश्चकार शृङ्गारं गोपीनां चित्तहारकः
शृङ्गारोद्रेकतस्तत्र बभूव सुन्दरो रवः
बभूवुरचलास्पन्दाः पुलकाञ्चितविग्रहाः
नखदन्तप्रहारं च प्रचकार परस्परम्
श्रोणीदेशे सुकठिने नखचिह्नं चकार ह
दूरीभूतं सुवसनं सुवेषं सुमनोहरम्
शृङ्गारं षोडशविधं चकार रसिकेश्वरः
चकारालिङ्गनं प्रीत्या कामुकीनां च कामुकः ।। 4.28.
कलाभेदेन तद्भेदं कामशास्त्रविदो विदुः
निरूपितं कामशास्त्रे चकारेशस्ततोऽधिकम्
प्रीत्यर्थमपि कर्तव्यं चकारेशस्ततोऽधिकम् शुशुभे कृष्णदेहश्च यथाऽद्रिर्गैरिकेण च
एवंभूते पूर्णराससंभूते रासमण्डले
सुवर्णस्यन्दनस्थाश्च कौतुकात्स्वगणावृताः
ऋषयो मुनयश्चैव सिद्धाश्च पितरस्तथा सस्त्रीकाश्च समाजग्मुर्ददृशुश्च मुदाऽन्विताः
दिव्यस्यन्दनमारुह्य शातकौम्भविनिर्मितम्
वह्निशुद्धांशुकेनैव वेष्टितं सुमनोहरम्
शतचक्रं चित्रयुक्तं मनोयायि मनोहरम्
समाजगाम भगवान्पार्वत्या सह शंकरः 4.28.
पुरतः कार्तिकेयश्च स्वयं देवो गणेश्वरः