तूर्णं जलात्समुत्थाय वासांसि परिधाय च
चन्दनागुरुकस्तूरीद्रव्याणि पुष्पमालिकाः
सकर्पूरं च ताम्बूलं भुक्त्वा सर्वाणि कौतुकात्
काचित्कामातुरा कृष्णं बलादाकृष्य कौतुकात्
काचित्कामप्रमत्ता च नग्नं कृत्वा तु माधवम्
युक्तिं शृण्वित्येवमुक्त्वा काचित्संगृह्य स्वामिनम्
सस्मितं सकटाक्षं च मुखचन्द्रं स्तनोन्नतम्
काचित्कान्तं करे कृत्वा संस्थाप्य श्रोणिदेशतः
काचिच्चूडां समाकृष्य मयूरपिच्छकं ददौ
प्रददौ स्वामिने कामात्प्रेमवर्धनहेतवे 4.28.
प्रेषयामास कृष्णस्य क्रोडे चन्दनचर्चिते
नर्तनं कारयामास तं च काचिद्बलेन च
कांचित्कृत्वा तु नग्नां च कस्यैचिदंशुकं ददौ
तस्याश्च कबरीं रम्यां सुनिर्माणं चकार ह
अतिसूक्ष्मं चन्दनेन्दुं कौतुकात्तदधो ददौ
वह्निशुद्धांशुकं चारु परिधार्य्य प्रयत्नतः
दत्त्वा च मालतीमालां चुचुम्ब च पुनः पुनः
प्रददौ नासिकामध्ये दुर्लभं गजमौक्तिकम्
चकार दन्तदलनं पक्वबिम्बाधरे वरे 4.28.
बहिश्चन्द्रोदये रम्ये पुष्पचन्दनचर्चिते
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते
पुनश्चकार शृङ्गारं गोपीनां चित्तहारकः
शृङ्गारोद्रेकतस्तत्र बभूव सुन्दरो रवः
बभूवुरचलास्पन्दाः पुलकाञ्चितविग्रहाः
नखदन्तप्रहारं च प्रचकार परस्परम्
श्रोणीदेशे सुकठिने नखचिह्नं चकार ह
दूरीभूतं सुवसनं सुवेषं सुमनोहरम्
शृङ्गारं षोडशविधं चकार रसिकेश्वरः
चकारालिङ्गनं प्रीत्या कामुकीनां च कामुकः ।। 4.28.
कलाभेदेन तद्भेदं कामशास्त्रविदो विदुः