शुभे क्षणे प्रविवेश राधिका रासमण्डलम्
राधामारात्तु संवीक्ष्य कृष्णस्तत्र मुदाऽन्वितः
मध्यस्थां सखिसङ्घानां रत्नालङ्कारभूषिताम्
गजेन्द्रगामिनीं रम्यां मुनिमानसमोहिनीम्
तलश्रोणिनितम्बानां भारशेषान्वितां पराम् बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम्
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम्
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम्
परमाद्भुतरूपं च सर्वत्रानुपमं परम्
वक्रलोचनकोणेन दर्शंदर्शं पुनःपुनः
मूर्च्छामवाप सा सद्यः कामबाणप्रपीडिता 4.28.
कटाक्षकामबाणैश्च विद्धः क्रीडारसोन्मुखः
पपात मुरली तस्य क्रीडाकमलमुज्ज्वलम्
क्षणेन चेतनां प्राप्य ययौ राधान्तिकं मुदा
श्रीकृष्णस्पर्शमात्रेण संप्राप्य चेतनां सती
मनो जहार राधायाः कृष्णस्तस्य च सा मुने
रत्नप्रदीपसंयुक्तं रत्नदर्पणसंयुतम्
कर्पूरान्वितताम्बूलैर्भोगद्रव्यैः समन्वितम्
राधया दत्तताम्बूलं चखाद मधुसूदनः
दत्तं चर्वितताम्बूलं राधायै प्रभुणा मुदा
राधाचर्वितताम्बूलं ययाचे माधवो मुदा 4.28.
एतस्मिन्नन्तरे तत्र सकामः सुरतोन्मुखः
शृङ्गाराष्टप्रकारं च विपरीतादिकं विभुः
कामशास्त्रेषु यद्गोप्यं चुम्बनाष्टविधं परम्
अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि स्मरातुरः
शृङ्गारकुशलौ तौ तु कामशास्त्रसुपण्डितौ
एवं गृहे गृहे रम्ये नानामूर्तिं विधाय च
गोपीनां नव लक्षाणि गोपानां च तथैव च
मुक्तकेशानि नग्नानि विच्छिन्नभूषणानि च
कङ्कणानां किंकिणीनां वलयानां च नारद
एवं कृत्वा स्थलक्रीडां ययुस्तानि जलं मुदा 4.28.