स्वयंप्रभानुगाः सप्त सहस्राणि ययुर्व्रजात्
शुभानुगा ययुर्गोप्यः सहस्राणि चतुर्दश
गौरी पद्मा ययुर्गोप्यः सहस्राणि चतुर्दश
कालिकाल्यो ययुर्गोप्यः सहस्राणि च षोडश
दुर्गानुगा ययुर्गोप्यः सहस्राणि च षोडश
प्रजग्मुर्भारतीपश्चात्सहस्राणि दश व्रजात्
रतिपश्चाद्वयस्याश्च सहस्राणि ययुर्दश
प्रजग्मुरम्बिकापश्चात्सहस्राणि च षोडश
नन्दिनीसहचारिण्यः सहस्राणि ययुर्दश ।। प्रययुः सुन्दरीपश्चात्सहस्राणि त्रयोदश
ययुः कृष्णप्रियापश्चात्सहस्राणि च षोडश 4.28.
ययुश्चम्पानुगा गोप्यः सहस्राणि त्रयोदश
सर्वा बभूवुरेकत्र तत्र तस्थुः पलं मुदा
चारुचन्दनहस्ताश्च काश्चित्तत्राययुर्व्रजात्
तत्राययुर्गोपकन्याः काश्चित्कस्तूरिकाकराः
काश्चित्तत्राययुगोप्यस्ताम्बूलपात्रवाहिकाः काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा
सर्वाश्चैकत्र संभूय सस्मिताश्च मुदान्विताः
चक्रुः पुनः पुनस्ताश्च हरिशब्दजपं पथि
स्वर्गेभ्यः सुन्दरं दृश्यं राकापतिकरान्वितम्
नारीणां कामजननं मुनिमोहनकारणम्
अतिसूक्ष्मकलं चातिभ्रमराणां मनोहरम् 4.28.
शुभे क्षणे प्रविवेश राधिका रासमण्डलम्
राधामारात्तु संवीक्ष्य कृष्णस्तत्र मुदाऽन्वितः
मध्यस्थां सखिसङ्घानां रत्नालङ्कारभूषिताम्
गजेन्द्रगामिनीं रम्यां मुनिमानसमोहिनीम्
तलश्रोणिनितम्बानां भारशेषान्वितां पराम् बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम्
राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम्
कन्दर्पकोटिलावण्यलीलाधाम मनोहरम्
परमाद्भुतरूपं च सर्वत्रानुपमं परम्
वक्रलोचनकोणेन दर्शंदर्शं पुनःपुनः
मूर्च्छामवाप सा सद्यः कामबाणप्रपीडिता 4.28.