कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् 1.19.
भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः
यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत्
यः शृणोति सदा भक्त्या स्तवराजमिमं द्विज
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते
सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः
महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः
कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः
इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम्
पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम्
सौतिरुवाच रेमे कालावशेषं च ताभिश्च निर्जने वने
गन्धर्वराजो मुमुदे पुत्रदारादिभिः सह
राजत्वं बुभुजे राजा कुबेरभवनोपमे
गन्धर्वराजः काले च गङ्गातीरे मनोहरे
शैवः शिवप्रसादेन पुत्रस्य विष्णुसेवया
कृत्वा पित्रोश्च सत्कारं गन्धर्वश्चोपबर्हणः
काले स्वयं ब्रह्मशापात्प्राणांस्त्यक्त्वा विचक्षणः
मालावती वह्निकुण्डे पुष्करे भारते भुवि
सृंजयस्य तु पत्न्यां च मनुवंशोद्भवस्य च
उपबर्हणगन्धर्वः पतिर्मे भवितेति च 1.20.
शौनक उवाच जातः केन प्रकारेण तद्भवान्वक्तुमर्हति
सौतिरुवाच कलावती तस्य पत्नी वन्ध्या चापि पतिव्रता
स्वामिदोषेण सा वन्ध्या काले च भर्तुराज्ञया
ध्यायमानं च श्रीकृष्णं ज्वलन्तं ब्रह्मतेजसा
ग्रीष्ममध्याह्नमार्तण्डप्रभातुल्येन तेजसा
ध्यानान्ते च मुनिश्रेष्ठः परः कृष्णपरायणः
चारुचम्पकवर्णाभां शरत्पङ्कजलोचनाम्
बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम्
मोहितां मुनिरूपेण कामबाणप्रपीडिताम्
सिन्दूरबिन्दुभूषाढ्यां सुचारुकज्जलोज्ज्वलाम् 1.20.