नारद उवाच वद केन प्रकारेण बभूव तनुसंगमः
वृन्दावनं किंप्रकारं किंविधं रासमण्डलम्
कुतूहलं भवति मे इदं श्रोतुं नवं नवम्
कथा पुराणसाराणां रासयात्रा हरेरहो
सूत उवाच प्रहस्य सुप्रसन्नास्यः प्रवक्तुमुपचक्रमे
श्रीनारायण उवाच शुभे शुक्लत्रयोदश्यां पूर्णे चन्द्रोदये मुने
यूथिकामालतीकुन्दमाधवीपुष्पवायुना
नवपल्लवसंयुक्तं पुंस्कोकिलरुतश्रुतम्
चन्दनागुरुकस्तूरीकुंकुमेन सुवासितम्
प्रसूनैश्चम्पकानां च कस्तूरीचन्दनान्वितैः 4.28.
दीप्तं रत्नप्रदीपैश्च धूपेन सुरभीकृतम्
परितो वर्तुलाकारं तत्रैव रासमण्डलम्
पुष्पोद्यानैः पुष्पितैश्च युक्तक्रीडासरोवरैः
क्रीडनीयैः सुन्दरैश्च सुरतश्रमहारिभिः
दधिपूर्णशुक्लधान्यजलैर्निर्मञ्छनीकृतम्
आम्रपल्लवयुक्तेन सूत्रबन्धेन चारुणा
मालतीमाल्यसंयुक्तैर्नारिकेलफलान्वितैः
चकार तत्र कुतुकाद्विनोदमुरलीरवम्
तच्छ्रुत्वा राधिका सद्यो मुमोह मदनातुरा
क्षणेन चेतनां प्राप्य पुनः शुश्राव सा ध्वनिम् 4.28.
त्यक्त्वा चावश्यकं कर्म निःससार द्रुतं गृहात्
ध्यायन्ती चरणाम्भोजं श्रीकृष्णस्य महात्मनः
बहिर्बभूवुस्तास्त्रस्ता वरेण हृतचेतनाः
त्रयस्त्रिंशद्वयस्याश्च ताः सुशीलादयः स्मृताः
तासां पश्चाद्ययुर्गोप्यस्तासां संख्या निबोध मे
ययुः सुशीलासंगेन सहस्राणि च षोडश
एकादशसहस्राणि माधव्याल्यश्च निर्ययुः
ययुः कुन्तीवयस्याश्च सहस्राणि दश स्मृताः
जाह्नवीसहचारिण्यः सहस्राणि ययुर्नव
सावित्र्याल्यः पंचदश सहस्राणि ययुर्व्रजात् 4.28.