आसां च वचनं श्रुत्वा तथाऽस्त्वेवमुवाच ह
क्रीडापद्मं राधिकायै सहस्रदलसंयुतम्
मालासमूहं पुष्पाणि गोपीभ्यो गोपिकापतिः
श्रीकृष्ण उवाच रासमण्डलरम्ये च वृन्दारण्ये करिष्यथ
यथाऽहं च तथा यूयं नाहं भेदः श्रुतौ श्रुतः
व्रतं वो लोकरक्षार्थं न हि स्वार्थमिदं प्रियाः
इत्युक्त्वा श्रीहरिस्तत्र तस्थौ सूर्यसुतातटे 4.27.
सर्वाः प्रहृष्टवदनाः सस्मिता वक्रलोचनाः
ताः शीघ्रं प्रययुर्गेहं जयं दत्त्वा पुनःपुनः
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम्
नारद उवाच वद केन प्रकारेण बभूव तनुसंगमः
वृन्दावनं किंप्रकारं किंविधं रासमण्डलम्
कुतूहलं भवति मे इदं श्रोतुं नवं नवम्
कथा पुराणसाराणां रासयात्रा हरेरहो
सूत उवाच प्रहस्य सुप्रसन्नास्यः प्रवक्तुमुपचक्रमे
श्रीनारायण उवाच शुभे शुक्लत्रयोदश्यां पूर्णे चन्द्रोदये मुने
यूथिकामालतीकुन्दमाधवीपुष्पवायुना
नवपल्लवसंयुक्तं पुंस्कोकिलरुतश्रुतम्
चन्दनागुरुकस्तूरीकुंकुमेन सुवासितम्
प्रसूनैश्चम्पकानां च कस्तूरीचन्दनान्वितैः 4.28.
दीप्तं रत्नप्रदीपैश्च धूपेन सुरभीकृतम्
परितो वर्तुलाकारं तत्रैव रासमण्डलम्
पुष्पोद्यानैः पुष्पितैश्च युक्तक्रीडासरोवरैः
क्रीडनीयैः सुन्दरैश्च सुरतश्रमहारिभिः
दधिपूर्णशुक्लधान्यजलैर्निर्मञ्छनीकृतम्
आम्रपल्लवयुक्तेन सूत्रबन्धेन चारुणा
मालतीमाल्यसंयुक्तैर्नारिकेलफलान्वितैः
चकार तत्र कुतुकाद्विनोदमुरलीरवम्
तच्छ्रुत्वा राधिका सद्यो मुमोह मदनातुरा
क्षणेन चेतनां प्राप्य पुनः शुश्राव सा ध्वनिम् 4.28.