परात्परो गुणातीतो ब्रह्मादीनां च वन्दितः
ब्रह्मानन्तशिवाराध्यो भविता त्वद्वशः सति
त्वं च भाग्यवती राधे स्त्रीजातिषु न ते परा
इत्युक्त्वा पार्वती सद्यस्तत्रैवान्तर्दधे मुने
एतस्मिन्नन्तरे कृष्णो जगाम राधिकापुरः
पीतवस्त्रपरीधानं नानालंकारभूषितम्
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम्
शरत्पार्वणचन्द्रास्यं सद्रत्नमुकुटोज्ज्वलम् 4.27.
विनोदमुरलीहस्तन्यस्तलीलासरोरुहम्
गुणातीतं स्तूयमानं ब्रह्मानन्तशिवादिभिः
अव्यक्तमक्षराव्यक्तं ज्योतीरूपं सनातनम्
दृष्ट्वा तदद्भुतं रूपं संभ्रमात्प्रणनाम तम्
दर्शंदर्शं मुखाम्भोजं सस्मिता वक्रलोचना
दृष्ट्वा हरिस्तामुवाच प्रसन्नवदनेक्षणः
श्रीकृष्ण उवाच प्राणाधिके राधिके त्वं वरं वृणु मनीषितम्
कृष्णस्य वचनं श्रुत्वा वरं वव्रे च राधिका
राधिकोवाच पातुं भक्तिरसं पद्मे मधुपश्च यथा मधु
मदीय प्राणनाथस्त्वं भव जन्मनि जन्मनि 4.27.
तव स्मृतौ गुणे चित्तं स्वप्ने ज्ञाने दिवानिशम्
गोपालिका ऊचुः भविष्यसि प्राणनाथः पास्यसि प्रतिजन्मनि
आसां च वचनं श्रुत्वा तथाऽस्त्वेवमुवाच ह
क्रीडापद्मं राधिकायै सहस्रदलसंयुतम्
मालासमूहं पुष्पाणि गोपीभ्यो गोपिकापतिः
श्रीकृष्ण उवाच रासमण्डलरम्ये च वृन्दारण्ये करिष्यथ
यथाऽहं च तथा यूयं नाहं भेदः श्रुतौ श्रुतः
व्रतं वो लोकरक्षार्थं न हि स्वार्थमिदं प्रियाः
इत्युक्त्वा श्रीहरिस्तत्र तस्थौ सूर्यसुतातटे 4.27.
सर्वाः प्रहृष्टवदनाः सस्मिता वक्रलोचनाः
ताः शीघ्रं प्रययुर्गेहं जयं दत्त्वा पुनःपुनः
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम्