गोलोकनाथं गोलोकं श्रीशैलं गिरिजातटम्
चरितं रतिचोरस्य स्त्रीणां मानसहारकम्
श्रीकृष्णार्धाङ्गसंभूता कृष्णतुल्या च तेजसा
भवती च हरेः प्राणा भवत्याश्च हरिः स्वयम्
षष्टिवर्षसहस्राणि ब्रह्मा तप्त्वा तपः पुरा
कृष्णाज्ञया च त्वं देवि गोपीरूपं विधाय च
सुयज्ञो हि नृपश्रेष्ठो मनुवंशसमुद्भवः
त्रिःसप्तकृत्वो निर्भूपां चकार पृथिवीं भृगुः 4.27.
शंकरात्प्राप्य त्वन्मन्त्रं सिद्धं कृत्वा च पुष्करे
बभञ्ज दर्पाद्दन्तं च गणेशस्य महात्मनः
मय्युद्धतायां कोपेन भस्मसात्कर्तुमीश्वरः
कल्पे कल्पे तव पतिः कृष्णो जन्मनि जन्मनि
अहो श्रीदामशापेन भारावतरणेन च
अयोनिसंभवा त्वं च जन्ममृत्युजरापहा
त्रिषु मासेष्वतीतेषु मधुमासे मनोहरे
सर्वाभिर्गोपिकाभिश्च सार्धं वृन्दावने वने
विधात्रा लिखिता क्रीडा कल्पे कल्पे महीतले
यथा सौभाग्ययुक्ताऽहं हरस्य श्रीहरिप्रिये 4.27.
यथा क्षीरेषु धावल्यं यथा वह्नौ च दाहिका
देवी वा मानुषी वाऽपि गान्धर्वी राक्षसी तथा
परात्परो गुणातीतो ब्रह्मादीनां च वन्दितः
ब्रह्मानन्तशिवाराध्यो भविता त्वद्वशः सति
त्वं च भाग्यवती राधे स्त्रीजातिषु न ते परा
इत्युक्त्वा पार्वती सद्यस्तत्रैवान्तर्दधे मुने
एतस्मिन्नन्तरे कृष्णो जगाम राधिकापुरः
पीतवस्त्रपरीधानं नानालंकारभूषितम्
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम्
शरत्पार्वणचन्द्रास्यं सद्रत्नमुकुटोज्ज्वलम् 4.27.
विनोदमुरलीहस्तन्यस्तलीलासरोरुहम्
गुणातीतं स्तूयमानं ब्रह्मानन्तशिवादिभिः