स्तोत्रेणानेन याः स्तुत्वा समाप्तिदिवसे शिवाम्
इह कान्तसुखं भुक्त्वा पतिं प्राप्य परात्परम्
इति श्रीब्रह्मवैवर्ते सीताकृतं पार्वतीस्तोत्रम् देवीं प्रणम्य स्तुत्वा च व्रतं पूर्णं चकार ह
गोसहस्रं ब्राह्मणेभ्यः सुवर्णशतकं मुदा
ब्राह्मणानां सहस्रं च भोजयामास सादरम्
एतस्मिन्नन्तरे तत्र दुर्गा दुर्गार्तिनाशिनी
ईषद्धास्यप्रसनास्या योगिनीशतसंयुता
दृष्ट्वा गोपाङ्गना देवीं प्रणेमुश्च मुदाऽन्विताः 4.27.
गोपिकाभ्यो वरं दत्त्वा ताः संभाष्य च सादरम्
पार्वत्युवाच व्रतं ते लोकशिक्षार्थं मायामानुषरूपिणि
गोलोकनाथं गोलोकं श्रीशैलं गिरिजातटम्
चरितं रतिचोरस्य स्त्रीणां मानसहारकम्
श्रीकृष्णार्धाङ्गसंभूता कृष्णतुल्या च तेजसा
भवती च हरेः प्राणा भवत्याश्च हरिः स्वयम्
षष्टिवर्षसहस्राणि ब्रह्मा तप्त्वा तपः पुरा
कृष्णाज्ञया च त्वं देवि गोपीरूपं विधाय च
सुयज्ञो हि नृपश्रेष्ठो मनुवंशसमुद्भवः
त्रिःसप्तकृत्वो निर्भूपां चकार पृथिवीं भृगुः 4.27.
शंकरात्प्राप्य त्वन्मन्त्रं सिद्धं कृत्वा च पुष्करे
बभञ्ज दर्पाद्दन्तं च गणेशस्य महात्मनः
मय्युद्धतायां कोपेन भस्मसात्कर्तुमीश्वरः
कल्पे कल्पे तव पतिः कृष्णो जन्मनि जन्मनि
अहो श्रीदामशापेन भारावतरणेन च
अयोनिसंभवा त्वं च जन्ममृत्युजरापहा
त्रिषु मासेष्वतीतेषु मधुमासे मनोहरे
सर्वाभिर्गोपिकाभिश्च सार्धं वृन्दावने वने
विधात्रा लिखिता क्रीडा कल्पे कल्पे महीतले
यथा सौभाग्ययुक्ताऽहं हरस्य श्रीहरिप्रिये 4.27.
यथा क्षीरेषु धावल्यं यथा वह्नौ च दाहिका
देवी वा मानुषी वाऽपि गान्धर्वी राक्षसी तथा