तप्तकाञ्चनवर्णां च रुदन्तीं तेजसाऽन्विताम्
गच्छन्तं प्रति तत्रैव वाग्बभूवाशरीरिणी
नारायणस्ते जामाता भवितेत्येव मे वचः
गत्वा ददौ स्वकान्तायै पालनाय मुदाऽन्वितः
व्रतस्यास्य प्रभावेण कान्तं त्रिजगतां पतिम्
राधा कृत्वा व्रतमिदं श्रीकृष्णं प्राणवल्लभम्
इत्येवं कथिता विप्र कथा गौरीव्रतस्य च स्वामिनं कृष्णतुल्यं च सा प्राप्नोति न संशयः
श्रीनारायण उवाच पूर्वस्तोत्रेण तां देवीं तुष्टुवुश्च दिनेदिने
समाप्तिदिवसे गोप्यो व्रतं कृत्वा मुदाऽन्विताः 4.27.
येन स्तोत्रेण तां स्तुत्वा सीता सत्यपरायणा
जानक्युवाच सदा शंकरयुक्ते च पतिं देहि नमोऽस्तु ते
सृष्टिस्थित्यंतरूपेण सृष्टिस्थित्यन्तरूपिणी
हे गौरि पतिमर्मज्ञे पतिव्रतपरायणे
सर्वमंगलमाङ्गल्ये सर्वमंगलसंयुते
सर्वप्रिये सर्वबीजे सर्वाशुभविनाशिनि
परमात्मस्वरूपे च नित्यरूपे सनातनि
क्षुत्तृष्णेच्छा दया श्रद्धा निद्रा तन्द्रा स्मृतिः क्षमा
लज्जा मेधा तुष्टिपुष्टी शान्तिसंपत्तिवृद्धयः
दृष्टादृष्टस्वरूपे च तयोर्बीजफलप्रदे 4.27.
शिवे शंकरसौभाग्ययुक्ते सौभाग्यदायिनि
स्तोत्रेणानेन याः स्तुत्वा समाप्तिदिवसे शिवाम्
इह कान्तसुखं भुक्त्वा पतिं प्राप्य परात्परम्
इति श्रीब्रह्मवैवर्ते सीताकृतं पार्वतीस्तोत्रम् देवीं प्रणम्य स्तुत्वा च व्रतं पूर्णं चकार ह
गोसहस्रं ब्राह्मणेभ्यः सुवर्णशतकं मुदा
ब्राह्मणानां सहस्रं च भोजयामास सादरम्
एतस्मिन्नन्तरे तत्र दुर्गा दुर्गार्तिनाशिनी
ईषद्धास्यप्रसनास्या योगिनीशतसंयुता
दृष्ट्वा गोपाङ्गना देवीं प्रणेमुश्च मुदाऽन्विताः 4.27.
गोपिकाभ्यो वरं दत्त्वा ताः संभाष्य च सादरम्
पार्वत्युवाच व्रतं ते लोकशिक्षार्थं मायामानुषरूपिणि