दत्त्वा षोडशोपचारान्प्रहृष्टं तत्र नित्यशः
पूर्वोक्तेनैव स्तोत्रेण स्तुत्वा च प्रणमेत्तदा
नारद उवाच अधुना श्रोतुमिच्छामि गौरीव्रतकथां शुभाम्
व्रतं केन कृतं पूर्वं भूमौ केन प्रकाशितम्
श्रीनारायण उवाच तया कृतं व्रतमिदं महातीर्थे च पुष्करे
समाप्तिदिवसे साक्षाद्बभूव जगदम्बिका
शातकुम्भविनिर्माणरथस्था परमेश्वरी
पार्वत्युवाच तव व्रतेन तुष्टाऽहं तुभ्यं दास्यामि वाञ्छितम्
पार्वतीवचनं श्रुत्वा दृष्ट्वा तां हृष्टमानसाम् 4.27.
वेदवत्युवाच वरेऽन्यस्मिन्स्पृहा नास्ति दृढां भक्तिं च तत्पदे
श्रुत्वा वेदवतीवाक्यं प्रहस्य जगदम्बिका
पार्वत्युवाच भारतं पादरजसा पूतं कर्तुं समागता
निखिलानि च तीर्थानि पूतानि परमेश्वरी
नारायणस्य कान्ता त्वं प्रिया जन्मनि जन्मनि
रामो दाशरथिः पूर्णः कर्तुं दस्युविनिग्रहम्
अयोध्यायां च त्रेतायामाविर्भावो हरेरपि
त्वामिमां प्राप्य जनकोऽप्ययोनिसंभवां सुताम्
गत्वा रामोऽपि मिथिलां त्वद्विवाहं करिष्यति
इत्युक्त्वा तां समालिङ्ग्य पार्वती स्वालयं ययौ 4.27.
लाङ्गलस्य च रेखायां सुखात्तस्थौ च मायया
तप्तकाञ्चनवर्णां च रुदन्तीं तेजसाऽन्विताम्
गच्छन्तं प्रति तत्रैव वाग्बभूवाशरीरिणी
नारायणस्ते जामाता भवितेत्येव मे वचः
गत्वा ददौ स्वकान्तायै पालनाय मुदाऽन्वितः
व्रतस्यास्य प्रभावेण कान्तं त्रिजगतां पतिम्
राधा कृत्वा व्रतमिदं श्रीकृष्णं प्राणवल्लभम्
इत्येवं कथिता विप्र कथा गौरीव्रतस्य च स्वामिनं कृष्णतुल्यं च सा प्राप्नोति न संशयः
श्रीनारायण उवाच पूर्वस्तोत्रेण तां देवीं तुष्टुवुश्च दिनेदिने
समाप्तिदिवसे गोप्यो व्रतं कृत्वा मुदाऽन्विताः 4.27.
येन स्तोत्रेण तां स्तुत्वा सीता सत्यपरायणा