वस्तुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम्
पतिभेदे पुत्रभेदे मित्रभेदे च संकटे
भक्त्या कुमारी स्तोत्रं च शृणुयाद्वत्सरं यदि
इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे राधाकृतं श्रीकृष्ण स्तोत्रम् स्तुत्वैवं चक्षुरुन्मील्य दृष्ट्वा कृष्णमयं जगत्
ददर्श यमुनातीरं वस्त्रद्रव्यमयं मुने
यत्र स्थाने यदाधारे यद्द्रव्यं संस्थितं पुरा
जलादुत्थाय ताः सर्वा व्रतं कृत्वा मनीषितम्
नारद उवाच कानि द्रव्याणि देयानि का देया तत्र दक्षिणा
व्रतान्ते किं रहस्यं च बभूव सुमनोहरम् ।। 4.27.
सूत उवाच कथां कथितुमारेभे कवीन्द्राणां गुरोर्गुरुः
नारायण उवाच ख्यातं गौरीव्रतं नाम मार्गे मासि कृतं स्त्रिया
पुंसां च धर्मकामार्थमोक्षदं कृष्णभक्तिदम्
कामदं कामुकानां च फलं कान्तनिमित्तकम्
प्रातश्च मार्गसंक्रान्त्यां भक्त्या गत्वा सरित्तटम्
देवषट्कं च संपूज्य कृत्वा चावाहनं घटे
दुर्गां पंचोपचारैश्च संपूज्य व्रतमारभेत् चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृताम्
निर्माय बालुकानां च दुर्गां दशभुजां पराम्
तां ध्यात्वाऽऽवाहयेद्देवीं ततो भूत्वा पुटाञ्जलिः
हे गौरि शंकरार्धाङ्गि यथा त्वं शंकरप्रिया 4.27.
इमं मन्त्रं पठित्वा तु ध्यायेद्देवीं जगत्प्रसूम्
शृणु नारद वक्ष्यामि मुनीन्द्राणां च दुर्लभम्
शिवां शिवप्रियां शैवां शिववक्षःस्थलस्थिताम्
नवयौवनसंपन्नां रत्नाभरणभूषिताम् ।। रत्नकङ्कणकेयूररत्ननूपुरभूषिताम्।ा
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम्
सिन्दूरतिलकं चारुकस्तूरीबिन्दुना सह
मणीन्द्रसारसंसक्तरत्नमालासमुज्ज्वलाम्
सुपीनकठिनश्रोणीं बिभ्रतीं च स्तनानताम्
ब्रह्मादिभिः स्तूयमानां सूर्यकोटिसमप्रभाम्
मुक्तापङ्क्तिविनिन्द्यैकदन्तराजिविराजिताम् ।। 4.27.
ध्यात्वैवं मस्तके पुष्पं विन्यस्य च व्रती मुदा