गत्वा वदत युष्माकमीश्वरीमथ राधिकाम्
अन्यथाऽहं न दास्यामि युष्मभ्यमंशुकानि च
व्रताराध्या च या देवी सा वा मे किं करिष्यति
श्रीकृष्णवचनं श्रुत्वा ताः सर्वा गोपकन्यकाः
चक्रुर्निवेदनं गत्वा यदुवाच हरिः स्वयम्
श्रुत्वा तासां च वचनं पुलकाञ्चितविग्रहा
जले योगासनं कृत्वा दध्यौ कृष्णपदाम्बुजम्
स्मारंस्मारं पदाम्भोजं साऽश्रुसंपूर्णलोचना
हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ।। 4.27.
गोपेश गोसमूहेश यशोदानन्दवर्धन
शतमन्योर्मन्युभग्न ब्रह्मदर्पविनाशक
शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर
चराचरतरोर्बीज गुणातीत गुणात्मक
अणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरूपक
यदनिर्वचनीयं च वस्तु निर्वचनीयकम्
अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः
स्पर्शने यस्य भृत्यानां ध्यानेन च दिवानिशम्
इत्येवमुक्त्वा सा देवी जले संन्यस्य विग्रहम्
राधाकृतं हरेः स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः 4.27.
विपत्तौ यः पठेद्भक्त्या सद्यः संपत्तिमाप्नुयात्
वस्तुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम्
पतिभेदे पुत्रभेदे मित्रभेदे च संकटे
भक्त्या कुमारी स्तोत्रं च शृणुयाद्वत्सरं यदि
इति श्रीब्रह्मवैवर्ते श्रीकृष्णजन्मखण्डे राधाकृतं श्रीकृष्ण स्तोत्रम् स्तुत्वैवं चक्षुरुन्मील्य दृष्ट्वा कृष्णमयं जगत्
ददर्श यमुनातीरं वस्त्रद्रव्यमयं मुने
यत्र स्थाने यदाधारे यद्द्रव्यं संस्थितं पुरा
जलादुत्थाय ताः सर्वा व्रतं कृत्वा मनीषितम्
नारद उवाच कानि द्रव्याणि देयानि का देया तत्र दक्षिणा
व्रतान्ते किं रहस्यं च बभूव सुमनोहरम् ।। 4.27.
सूत उवाच कथां कथितुमारेभे कवीन्द्राणां गुरोर्गुरुः