चक्रुर्विषादं तोये च नग्नास्ता रुरुदुर्भृशम्
कृत्वा विषादं तत्रैव तमूचुर्गोपकन्यकाः
गोपालिका ऊचुः निबोधयात्मानमेव स्पर्शं कर्तुं त्वमर्हसि
व्रतार्हाणि च वस्तूनि देवस्वानि च साम्प्रतम्
देहि धौतानि धृत्वा च करिष्यामो व्रतं वयम्
एतस्मिन्नन्तरे तत्र श्रीदामा वस्त्रपुञ्जिकाम्
दृष्ट्वा सवस्त्रं गोपालं सर्वासामीश्वरी परा
श्रीराधिकोवाच कदम्बमाले हे कुन्ति यमुने सर्वमङ्गले
हे पद्ममुखि सावित्रि पारिजाते च जाह्नवि 4.27.
कालिके कमले दुर्गे हे सरस्वति भारति
कृष्णप्रिये मधुमति चम्पे चन्दननन्दिनि
सर्वा राधाज्ञया तूर्णं समुत्थाय जलात्क्रुधा
एतासां सहचारिण्यो गोप्यस्तूर्णं सहस्रशः
वेगेन दुद्रुवुः सर्वाः श्रीदामानं च बालिकाः
जगाम शीघ्रं श्रीदामा यत्र गोपाः सहांशुकाः
वस्त्रचोरांश्च गोपांश्च वेष्टयामासुराशु ताः
श्रीकृष्णसहितान्बालान्वरयामासुराशु च
माधवः स्थापयामास स्कन्धे स्कन्धे तरोस्तथा
वस्त्राणां पुंजिकाः सर्वाः स्कन्धेषु विनिधाय च 4.27.
श्रीकृष्ण उवाच वस्त्रयाञ्चां प्रकर्तुं च कुरुताशु पुटाञ्जलिम्
गत्वा वदत युष्माकमीश्वरीमथ राधिकाम्
अन्यथाऽहं न दास्यामि युष्मभ्यमंशुकानि च
व्रताराध्या च या देवी सा वा मे किं करिष्यति
श्रीकृष्णवचनं श्रुत्वा ताः सर्वा गोपकन्यकाः
चक्रुर्निवेदनं गत्वा यदुवाच हरिः स्वयम्
श्रुत्वा तासां च वचनं पुलकाञ्चितविग्रहा
जले योगासनं कृत्वा दध्यौ कृष्णपदाम्बुजम्
स्मारंस्मारं पदाम्भोजं साऽश्रुसंपूर्णलोचना
हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ।। 4.27.
गोपेश गोसमूहेश यशोदानन्दवर्धन