कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः 1.19.
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा
इति ते कथितं बाण कवचं परमाद्भुतम्
यत्फलं सर्वतीर्थानां स्नानेन लभते नरः
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः
सौतिरुवाच मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान्पुरा
ॐ नमः शिवाय वन्दे सुराणां सारं च सुरेशं नीललोहितम्
ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम्
तपोरूपं तपोबीजं तपोधनधनं वरम्
कारणं भुक्तिमुक्तीनां नरकार्णवतारणम्
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् 1.19.
विषयाणां विभेदेन बिभ्रतं बहुरूपकम्
वायुरूपं चन्द्ररूपं सूर्य्यरूपं महत्प्रभुम्
भक्तजीवनमीशं च भक्तानुग्रहकातरम्
अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम्
इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने
इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः
अपुत्रो लभते पुत्रं वर्षमेकं शृणोति यः
गलत्कुष्ठी महाशूली वर्षमेकं शृणोति यः
कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् 1.19.
भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः
यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत्
यः शृणोति सदा भक्त्या स्तवराजमिमं द्विज
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते
सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः
महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः
कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः
इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम्
पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम्